जलप्लावनेन प्रभाविताय प्रत्येकं परिवाराय केंद्रसर्वकारो दास्यति यथासंभवाम् आर्थिकीं सहायताम् : जेपीनड्डाः
गुवाहाटी, 05 अगस्तमासः (हि.स.)। केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जेपीनड्डाः बुधवासरे असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा इत्यनेन सह शिवसागरचराइदेवजोरहाटजनपदानां जलप्लावनेन पीडितप्रदेशान् परिभ्रम्य तत्रत्यपरिस्थितेः अवलोकनम् अकरोत्।
Union Health and Family Welfare Minister JP Nadda with Assam CM Dr Himanta Biswa Sarma In Flood Affected Areas of Assam.on Wednesday


गुवाहाटी, 05 अगस्तमासः (हि.स.)।

केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जेपीनड्डाः बुधवासरे असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा इत्यनेन सह शिवसागरचराइदेवजोरहाटजनपदानां जलप्लावनेन पीडितप्रदेशान् परिभ्रम्य तत्रत्यपरिस्थितेः अवलोकनम् अकरोत्। अस्मिन् अवसरे तेन प्रभावितपरिवारेभ्यः सर्वथा आर्थिकसहायताप्रदानस्य आश्वासनं दत्तम्।

शिवसागरजनपदस्य अत्यधिकप्रभावितं नेपालीखूटीक्षेत्रम् निरीक्ष्य नड्डामहोदयः अवदत् यत् अस्याः अभूतपूर्वतनेन जलप्रलयेन कारणेन जनजीवनम्, आजीविका तथा आधारभूतसंरचनाः अत्यधिकं क्षतिम् अगच्छन्। तेन उक्तं यत् केन्द्रसरकारः प्रत्येकं प्रभावितपरिवारं व्यापकां आर्थिकसहायतां प्रदास्यति तथा राहतपुनर्वासपुनर्निर्माणकार्येषु सर्वतोभावेन सहयोगं करिष्यति। सः पुनरपि आश्वासनम् अददात् यत् अस्यां संकटवेलायां केन्द्रसरकारः असमराज्यस्य जनानां सह दृढतया तिष्ठति।

सायंकाले डिब्रूगढस्थिते असमसचिवालये जेपीनड्डामहोदयस्य, मुख्यमन्त्रिणः डॉ. हिमन्तबिस्वशर्ममहोदयस्य, वरिष्ठाधिकारिणां च उपस्थितौ उच्चस्तरीयसमीक्षोपवेशनम् आयोजितं भविष्यति, यस्मिन् उपर्यसमप्रदेशस्य बाढपरिस्थितेः विस्तृतसमीक्षा भविष्यति।

ज्ञापितं यत् शिवसागरचराइदेवजोरहाटजनपदेषु समुत्पन्नायाः बाढायाः प्रमुखकारणं नागालैण्डराज्यस्य मोनजनपदात् आगतः जलप्रवाहः अस्ति। असमराज्यभ्रमणे समाप्ते सति केन्द्रीयमन्त्री मोनजनपदमपि गतवान् तथा तत्रत्यस्थितेः आकलनम् अकरोत्।

निरीक्षणकाले मुख्यमन्त्री डॉ. हिमन्तबिस्वशर्ममहोदयः अवदत् यत् नेपालीखूटीक्षेत्रस्य अधिकांशजनाः पशुपालनेन एव जीवननिर्वाहं कुर्वन्ति। तेन आश्वासनं दत्तं यत् येषां परिवाराणां पशवः बाढया वहिताः, तेषां कृते राज्यसर्वकारः समसंख्याकान् पशून् प्रदास्यति। तथा च येषां गृहाणि पूर्णतया विनष्टानि, तेषां कृते स्थायिनिवासगृहाणां निर्माणं कारयिष्यति।

अतीतानि त्रिदिनानि शिवसागरचराइदेवजोरहाटजनपदेषु राहतपुनर्वासकार्याणां निरन्तरपर्यवेक्षणं कुर्वन् मुख्यमन्त्री अवदत् यत् क्षतिग्रस्तलोकसम्पदां अत्यावश्यकसेवानां च शीघ्रपुनर्स्थापनमेव सरकारस्य सर्वोच्चप्राथमिकता अस्ति। सः जनान् धैर्यधारणायाः आग्रहं कृत्वा उक्तवान् यत् सरकारः अस्मिन् कठिनकाले तेषां सह पूर्णदृढतया तिष्ठति। मुख्यमन्त्री अधिकारिभ्यः निर्देशम् अददात् यत् क्षतेः पारदर्शी व्यापकं च मूल्याङ्कनं क्रियताम्, येन सर्वे पात्रपरिवाराः समये सहायतालाभं प्राप्नुयुः।

अस्मिन् एव काले भाजपाअसमप्रदेशस्य प्रवक्ता डॉ. देवजीतमहन्तमहोदयः अवदत् यत् विधायकेन अखिलगोगोईना मुख्यमन्त्रिणः राहतकार्याणां प्रशंसा संकटसमये सकारात्मकराजनीतेः उत्कृष्टम् उदाहरणम् अस्ति। तेन काङ्ग्रेसदलस्य उपरि आरोपः कृतः यत् तत् राहतकार्येषु मनः न निवेश्य केवलं राजनैतिकारोपप्रत्यारोपेषु एव संलग्नम् अस्ति। महन्तमहोदयः काङ्ग्रेसदलम् अपृच्छत् यत् शिवसागरचराइदेवजोरहाटजनपदेषु बाढपीडितजनानां कृते राजनैतिकदलेन किम् दृढमानवीयसहायतारूपं कार्यं कृतम्।

-----------