राज्यस्तरीय-ताइक्वाण्डो-प्रतियोगितायाः पदकविजेतॄन् क्रीडकान् जनपदाधिकारीणः सम्मानिताः
देवरिया, ०५ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य देवरिया-जनपदस्य जनपदाधिकारी मधुसूदन-हुल्गी बुधवासरे राज्यस्तरीय-ताइक्वाण्डो-प्रतियोगितायां उत्कृष्टं प्रदर्शनं कृत्वा पदकानि विजितवद्भ्यः जनपदस्य क्रीडकेभ्यः सम्मानं प्रदत्तवान्। सः क्रीडकाणाम् उपलब्धौ
जिलाधिकारी से मिलते  खिलाड़ी


देवरिया, ०५ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य देवरिया-जनपदस्य जनपदाधिकारी मधुसूदन-हुल्गी बुधवासरे राज्यस्तरीय-ताइक्वाण्डो-प्रतियोगितायां उत्कृष्टं प्रदर्शनं कृत्वा पदकानि विजितवद्भ्यः जनपदस्य क्रीडकेभ्यः सम्मानं प्रदत्तवान्। सः क्रीडकाणाम् उपलब्धौ प्रसन्नतां व्यक्तं कुर्वन् राष्ट्रियस्तरेऽपि उत्कृष्टं प्रदर्शनं कर्तुं तेभ्यः शुभकामनाः प्रदत्तवान्।

जुलाई-मासस्य ३० दिनाङ्कात् अगस्त-मासस्य २ दिनाङ्कपर्यन्तं लखनऊ-नगरे स्थिते के.डी. सिंह-बाबू-क्रीडाङ्गणे आयोजितायां राज्यस्तरीय-ताइक्वाण्डो-प्रतियोगितायां देवरिया-क्रीडाङ्गणस्य प्रशिक्षकस्य गिरीश-सिंहस्य मार्गदर्शने प्रशिक्षणं प्राप्यमाणैः क्रीडकैः उत्कृष्टं प्रदर्शनं कृतम्। प्रतियोगितायां आरव-जायसवालः आयुषी-कुशवाहा च स्वर्णपदकं विजित्य उत्तरप्रदेशस्य राष्ट्रिय-ताइक्वाण्डो-दले स्वस्थानं सुनिश्चितवन्तौ। अपरतः सत्यम्-मिश्रः, आरोही-गुप्ता तथा रिद्धिमा-जायसवालः रजतपदकानि विजित्य जनपदस्य गौरवं वर्धितवन्तः। हर्ष-यादवः अदिति-निषादः च कांस्यपदकानि प्राप्य स्वप्रतिभायाः परिचयं दत्तवन्तौ।

अस्मिन् अवसरे जिला-क्रीडाधिकारी अनुराग-श्रीवास्तवः, ताइक्वाण्डो-प्रशिक्षकः गिरीश-सिंहः, जनपद-ताइ-क्वाण्डो-सङ्घस्य अध्यक्षः सञ्जय-कनोडिया, अभिषेक-कुमारः, अशोक-कुमार-सिंहः, आशीष-सिन्हा, देवरिया-ओलम्पिक-सङ्घस्य महासचिवः अजय-जायसवालः, अध्यक्षः सञ्जय-केडिया इत्यादयः क्रीडा-विभागस्य ताइक्वाण्डो-सङ्घस्य च बहवः पदाधिकारीणः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan