मंत्रिमंडलीयसचिवः सोमनाथन् अथ च गृहसचिवः मोहनः इत्याभ्याममिलत् कार्यविस्तारः
नव दिल्ली, 05 अगस्तमासः (हि.स.)। मन्त्रिमण्डलस्य सचिवः डॉ. टी.वी. सोमनाथन तथा गृहसचिवः गोविन्दमोहन इत्येताभ्यां एकवर्षीयः सेवाविस्तारः प्रदत्तः। मन्त्रिमण्डलनियुक्तिसमित्या सेवाविस्तारस्य अनुमोदनं कृतम्। बुधवासरे पृथक् पृथक् आदेशपत्रयोः एषा सूचना
कैबिनेट सचिव सोमनाथन (फाइल फोटो)


नव दिल्ली, 05 अगस्तमासः (हि.स.)।

मन्त्रिमण्डलस्य सचिवः डॉ. टी.वी. सोमनाथन तथा गृहसचिवः गोविन्दमोहन इत्येताभ्यां एकवर्षीयः सेवाविस्तारः प्रदत्तः। मन्त्रिमण्डलनियुक्तिसमित्या सेवाविस्तारस्य अनुमोदनं कृतम्। बुधवासरे पृथक् पृथक् आदेशपत्रयोः एषा सूचना प्रदत्ता।

मन्त्रिमण्डलसचिवः टी.वी. सोमनाथन आगामिवर्षस्य अगस्तमासस्य ३० दिनाङ्कपर्यन्तं तथा केन्द्रीयगृहसचिवः गोविन्दमोहन आगामिवर्षस्य अगस्तमासस्य २२ दिनाङ्कपर्यन्तं स्वपदे एव कार्यं करिष्यतः। अर्थशास्त्रे पीएचडी उपाधिधारी पूर्ववित्तसचिवः सोमनाथनः ३० अगस्त २०२४ दिनाङ्के द्विवर्षीयप्रारम्भिककार्यकालाय पदभारं स्वीकृतवान्। अपरतः सिक्किमकाडरस्य १९८९ तमे वर्षस्य भारतीयप्रशासनिकसेवायाः अधिकारी गोविन्दमोहनः संस्कृतिसचिवरूपेण कार्यं कृत्वा अगस्त २०२४ तमे वर्षे एतत्पदभारं स्वीकृतवान्। एषः तस्य प्रारम्भिकसेवानिवृत्तितिथेः अनन्तरं द्वितीयः कार्यकालविस्तारः अस्ति।

उल्लेखनीयं यत् डॉ. टी.वी. सोमनाथनः १९८७ तमे वर्षे तमिलनाडुकाडरस्य भारतीयप्रशासनिकसेवायाः अधिकारी अस्ति। सः अर्थशास्त्रे पीएचडी, चार्टर्डअकाउण्टेण्ट्, कॉस्टअकाउण्टेण्ट् तथा कम्पनीसचिवः अपि अस्ति। सः प्रधानमन्त्रीकार्यालये, वित्तमन्त्रालये, विश्वबैङ्के तथा तमिलनाडुसरकारे अनेकानि महत्त्वपूर्णानि पदानि अलङ्कृतवान्। अर्थशास्त्रे लोकनीतौ च तस्य त्रयः ग्रन्थाः तथा अशीत्यधिकाः शोधलेखाः प्रकाशिताः सन्ति।

तथैव गोविन्दमोहनः अस्मात् पूर्वं गृहमन्त्रालये विशेषकार्याधिकारी (ओएसडी), संस्कृतिसचिवः, अपरसचिवः तथा संयुक्तसचिवः इति पदेषु कार्यं कृतवान्। वित्तमन्त्रालये, मन्त्रिमण्डलसचिवालये तथा अमेरिकादेशस्थिते भारतीयदूतावासे अपि तेन महत्त्वपूर्णाः उत्तरदायित्वाः निर्वाहिताः। सिक्किमकाडरस्य भारतीयप्रशासनिकसेवायाः अधिकारी गोविन्दमोहनः प्रशासने, आर्थिकनीतौ तथा आन्तरिकसुरक्षायां व्यापकमनुभवं धारयति।

---------

Hindusthan Samachar / Dheeraj Maithani