Enter your Email Address to subscribe to our newsletters

यमुनानगरम्, 05 अगस्तमासः (हि.स.)। श्रावणमासस्य कांवडयात्रायाः अवसरस्य हरियाणाराज्यस्य यमुनानगरजनपदस्य कलानौरनाके श्रद्धायाः, सेवायाः तथा पारिवारिकसमर्पणस्य अद्भुतं दृश्यं दृष्टिगोचरम् अभवत्। पञ्जाबराज्यनिवासिनौ द्वौ युवकौ स्वीयां द्व्यधिकशतवर्षीयां पितामहीं सुनहरीदेवीं विशेषरूपेण निर्मितायां पालक्यां उपवेश्य हरिद्वारस्य दर्शनं कारितवन्तौ। अधुना तौ हरिकीपौडीतः गङ्गाजलं गृहीत्वा प्रायः त्रिशतकिलोमीटरपरिमितां पदयात्रां कुर्वन्तौ पालकीं स्कन्धयोः वहन्तौ स्वगृहं प्रति प्रतिनिवर्तेते।
अस्यां यात्रायां सुनहरीदेव्याः पौत्रः सिमरन तथा सप्तदशवर्षीयः दौहित्रः विराटः सह गच्छतः। कलानौरनाके यदा श्रद्धालूनां पथिकानां च दृष्टिः पालक्यां पतिता, तदा बहुसंख्यकाः जनाः तत्र एव स्थितवन्तः। जनैः उभयोः युवकयोः सेवाभावस्य प्रशंसा कृता तथा सुनहरीदेव्याः आशीर्वादः गृहीतः।
द्व्यधिकशतवर्षीया (१०२ वर्षीयाः) सुनहरीदेवी सभावुकभावेन अवदत् यत् सा कदापि न अचिन्तयत् यत् जीवनस्य अस्मिन् अवस्थाविशेषे तस्यै एवं हरिद्वारतीर्थयात्रायाः सौभाग्यं प्राप्स्यते। तया उक्तं यत् स्वपौत्रे दौहित्रे च तस्याः महान् गौरवः अस्ति तथा ईश्वरः प्रत्येकस्मै परिवाराय एतादृशान् संस्कारसम्पन्नान् सेवाभावयुक्तान् च बालकान् ददातु।
पौत्रः सिमरन अवदत् यत् तस्य पितुः दीर्घकालात् एषा अभिलाषा आसीत् यत् पौराणिककथायाः श्रवणकुमारस्य इव स्वपरिवारस्य वृद्धां मातरं पालक्यां उपवेश्य हरिद्वारं नीयेत। तस्यैव संकल्पस्य पूर्त्यर्थं ताभ्यां एषा यात्रा प्रारब्धा। हरिद्वारे गङ्गास्नानं पूजार्चनां च सम्पन्न्य अधुना तौ गङ्गाजलं गृहीत्वा पटियालानगरं प्रति प्रतिनिवर्तेते।
दौहित्रः विराटः अवदत् यत् सः सङ्गरूरजनपदस्य निवासी अस्ति। परिवारस्य अस्यां सेवायात्रायां सहभागित्वं सः स्वस्य परमं सौभाग्यं मन्यते।
यात्रार्थं विशेषरूपेण दृढा सुखासीना च पालकी निर्मापिता, येन वृद्धायाः महिलायाः काचन असुविधा न भवेत्। सम्पूर्णमार्गे श्रद्धालवः एतस्याः अद्भुतकांवडयात्रायाः हार्दिकं स्वागतं कुर्वन्ति। यमुनानगरे अपि एतत् दृश्यं श्रद्धायाः, पारिवारिकसंस्कारस्य सेवाभावस्य च प्रेरणादायकम् उदाहरणं भूत्वा जनानां मध्ये चर्चाविषयः अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani