Enter your Email Address to subscribe to our newsletters

रणबीर-कपूर-अभिनीतस्य बहुप्रतीक्षितस्य पौराणिक-चलचित्रस्य रामायणस्य पूर्वदृश्य-प्रदर्शनानन्तरं सामाजिक-माध्यमेषु अस्य चलचित्रस्य तुलना प्रभास-अभिनीतस्य आदिपुरुष-चलचित्रेण कर्तुं प्रारब्धा। अधुना आदिपुरुषस्य गीतकारः लेखकश्च मनोज-मुन्तशिरः अस्यां तुलनायां स्वप्रतिक्रियां प्रकटयन् अवदत् यत् उभयोः चलचित्रयोः तुलनाकरणम् उचितं नास्ति। सः अवदत् यत् प्रत्येकं चलचित्रं स्वकीयया पृथक् दृष्ट्या प्रस्तुतीकरणेन च निर्मीयते तथा ‘रामायण’-चलचित्राय तस्य शुभकामनाः सन्ति। सः चलचित्रे रावणस्य भूमिकां निर्वहन्तं अभिनेतारं यशमपि प्रशंसितवान्।
मनोज-मुन्तशिरः अवदत्—“यशः अत्यन्तं उत्कृष्टः अभिनेता अस्ति, अत्र नास्ति कश्चन सन्देहः। अस्माकं पौराणिक-कथाः वैश्विक-मञ्चे उपस्थापयन्तीभ्यः सर्वाभ्यः चलचित्रनिर्मितिभ्यः मम शुभकामनाः सन्ति। रामायणस्य तुलना आदिपुरुषेण न कर्तव्या। ‘आदिपुरुष’ दर्शकानां अपेक्षां पूरयितुं न अशक्नोत् इति स्वीकारणे कापि लज्जा नास्ति। चलचित्रे सम्बद्धाः सर्वे जनाः पूर्णतया परिश्रमं कृतवन्तः, किन्तु तत् प्रयासः विफलः सिद्धः।”
तस्य अस्य वक्तव्यस्य सामाजिक-माध्यमेष्वपि पर्याप्ता चर्चा भवति।
मनोज-मुन्तशिरः आदिपुरुषस्य सङ्गीतस्य उल्लेखं कुर्वन् अवदत् यत् चलचित्रस्य सङ्गीतं जनानां समीपं प्राप्तम् तथा च अत्यधिकं लोकप्रियं जातम् इति विषये तस्मै गर्वः अस्ति। सः आशां प्रकटितवान् यत् रामायणस्य सङ्गीतमपि तस्मिन् एव स्तरे भविष्यति, अपि च तस्मादपि अग्रे गमिष्यति।
उल्लेखनीयं यत् चलचित्रस्य सङ्गीतं ए.आर. रहमान् तथा हॉलीवुड्-जगतः प्रसिद्धेन सङ्गीतकारेण हान्स-जिमर इत्यनेन सज्जीकृतम् अस्ति। नितेश-तिवारी-निर्देशिते अस्मिन् चलचित्रे रणबीर-कपूरः, साई-पल्लवी, यशः, सनी-देओलः, रवि-दुबेः तथा लारा-दत्ता च प्रमुखासु भूमिकासु दृश्यन्ते। चलचित्रं दीपावली-पर्वणः २०२६ तमस्य वर्षस्य अवसरे चलचित्रगृहेषु प्रदर्शितं भविष्यति।
Hindusthan Samachar / Divya Ranjan