Enter your Email Address to subscribe to our newsletters

काठमांडूः, 05 अगस्तमासः (हि.स.)।
नेपालदेशे एलपीजी-अनिलस्य तीव्रा दुर्लभता दृश्यते। गैसपात्रप्राप्त्यर्थं जनाः दीर्घासु पङ्क्तिषु घण्टान् यावत् स्थितुं विवशाः सन्ति। उपभोक्तृणां समस्यायाः समाधानार्थं नेपालसरकारेण 'क्विक् रिस्पॉन्स् टीम्' इति त्वरितप्रतिक्रियादलस्य गठनं कृतम्।
उद्योगवाणिज्यआपूर्तिमन्त्री गौरीयादवमहोदयस्य निर्देशानुसारं देशस्य कस्मिंश्चिदपि भागे उपभोक्तृणां गृहाणि यावत् एलपीजीगैसस्य आपूर्तिः अविच्छिन्नरूपेण भवेत् इति उद्देशेन 'क्विक् रिस्पॉन्स् टीम्' इति दलस्य गठनं कृतम्। एतद्दलं बुधवासरात् औपचारिकरूपेण स्वकार्यं प्रारब्धवत्। मन्त्री यादवमहोदयेन गैसआपूर्तौ उत्पद्यमानानां सर्वासां समस्याणां त्वरितसमाधानस्य निर्देशाः प्रदत्ताः। तदनुसारेण उद्योगमन्त्रालयस्य, नेपालआयलनिगमस्य, उद्योगविभागस्य तथा गैसव्यवसायिनां प्रतिनिधीनां समावेशेन एषः संयुक्ततन्त्रः निर्मितः।
अस्मिन् दले उद्योगमन्त्रालयस्य पक्षतः मङ्गलबिष्टः, नेपालआयलनिगमस्य पक्षतः इन्दुश्रेष्ठा उपेन्द्रसुवेदी च, गैसउद्योगस्य पक्षतः आयुसनेपालः कुलप्रसादरायः च सदस्यत्वेन नियुक्ताः। अस्य दलस्य मुख्योद्देश्यः देशस्य कस्मिंश्चिदपि भागे एलपीजीगैसस्य न्यूनता वितरणसम्बद्धा वा समस्या समुत्पद्यते चेत् तत्क्षणमेव सम्बद्धपक्षाणां मध्ये समन्वयं स्थापयित्वा तस्याः त्वरितसमाधानं कर्तुम् अस्ति। नेपालआयलनिगमस्य हॉटलाइनदूरवाणीसंख्यायां प्राप्तानां शिकायतानां आधारेण सम्बद्धैः गैसउद्योगैः, विक्रेतृभिः, व्यवसायिभिश्च सह समन्वयं विधाय उपभोक्तृभ्यः गैसस्य निर्बाधापूर्तिः सुनिश्चितीक्रियते।
नेपालआयलनिगमस्य अनुसारं समीपदिनेषु विभिन्नप्रदेशेभ्यः गैसस्य अनुपलब्धतासम्बद्धानां शिकायतानां वृद्धेः अनन्तरम् एतस्य विशेषतन्त्रस्य गठनं कृतम्। एतद्दलं कार्यालयसमये प्राप्ताः सर्वाः शिकायताः प्राधान्येन स्वीकृत्य यथाशीघ्रं तासां समाधानार्थं प्रयतिष्यते।
यदि कस्यचित् उपभोक्तुः एलपीजीगैसस्य आपूर्तिसम्बद्धा काचित् समस्या अथवा शिकायताऽस्ति, तर्हि सः कार्यालयसमये नेपालआयलनिगमस्य हॉटलाइनदूरवाणीसंख्यां ०१-५९७१९०२ सम्पर्कं कर्तुं शक्नोति। निगमेन उक्तं यत् अस्मिन् दूरवाणीसंख्यायां प्राप्तासु शिकायतासु 'क्विक् रिस्पॉन्स इत्येतद्दलं' तत्क्षणमेव आवश्यककार्यवाहीं प्रारभ्य समाधानप्रक्रियां प्रवर्तयिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani