Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 05 अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य राज्यसभासदस्यः हरियाणाप्रभारी च सतीशपूनिया महोदयः काङ्ग्रेसदलस्य लोकतन्त्रं संवैधानिकसंस्थाश्च प्रति द्विमानदण्डस्य आचरणस्य आरोपम् अकरोत्। तेन उक्तं यत् काङ्ग्रेसदलम् एकतः संविधानस्य लोकतन्त्रस्य च संरक्षणस्य वार्तां करोति, अपरतः तु लोकतान्त्रिकसंस्थानां सम्मानं न करोति।
बुधवासरे संसद्परिसरे पत्रकारैः सह संवादं कुर्वन् पूनियामहोदयः अवदत् यत् अस्मिन् संसत्सत्रे अद्यपर्यन्तम् एकोऽपि दिवसः व्यवधानरहितया सदनकार्यवाह्या न व्यतीतः। तेन उक्तं यत् यदि काङ्ग्रेसदलम् वास्तवमेव लोकतन्त्रे विश्वासं करोति तर्हि तस्य सदने स्थित्वा चर्चायाः वादविवादस्य च माध्यमेन स्वपक्षस्य प्रस्तुतीकरणं कर्तव्यम्।
तेन आरोपितं यत् काङ्ग्रेसदलम् वादविवादात् पलायते, यतः स्वपक्षस्य समर्थनार्थं तस्य समीपे पर्याप्ताः तर्काः न सन्ति। तेन उक्तं यत् काङ्ग्रेसदलस्य अस्य द्विमानदण्डात्मकस्य व्यवहारस्य कारणात् एव तस्य दलस्य निरन्तरः पतनक्रमः दृश्यते। अपि च तेन काङ्ग्रेसदलस्य उपरि अयमपि आरोपः कृतः यत् तत् लोकतान्त्रिकप्रक्रियायां सहभागित्वं कर्तुं न इच्छति, अपितु सदनकार्यवाह्याः बहिष्करणेन राजनैतिकविरोधस्य अन्यं मार्गम् अनुसरति।
-----------
Hindusthan Samachar / Dheeraj Maithani