Enter your Email Address to subscribe to our newsletters


मुम्बई, ०५ अगस्तमासः (हि.स.)। भारतीय-रिजर्व-धनागारस्य गवर्नरः सञ्जय-मल्होत्रा बुधवासरे अवदत् यत् रिजर्व-धनागार: वित्तवर्षस्य २०२७-२८ आरम्भे पॉलिमर अर्थात् प्लास्टिक-नोट-आदिनां प्रकाशनस्य सज्जतां करोति। एते नोट इति विशेषतः न्यून-मूल्यवर्गस्य नोट इत्यादिनां कृते उपयोगिनः भविष्यन्ति, यतः तेषां उपयोगः प्रचलनं च अधिकं भवति।
आरबीआई-गवर्नरः सञ्जय-मल्होत्रा मौद्रिकनीतेः समीक्षायाः घोषणानन्तरं मुम्बईनगरे आयोजितायां पत्रकार-वार्तायां सम्बोधयन् अवदत् यत् केन्द्रीय-धनागारस्य लक्ष्यं वित्तवर्षस्य २०२७-२८ आरम्भे प्लास्टिक-नोट-इत्यादिनां प्रकाशनम् भविष्यति, परन्तु एतद् वर्तमानक्षेत्रीय-परीक्षणानां सफलतायाः अधीनं भविष्यति। मल्होत्रा अवदत् यत् केषुचित् देशेषु पॉलिमर-नोट-इत्यादिनां त्रिंशद्-वर्षाधिककालपर्यन्तं प्रचलितत्वस्य अभिलेखः अस्ति। सः अवदत् यत् यदि सर्वाः योजनाः निर्धारित-कार्यक्रमानुसारं अग्रे प्रवर्तन्ते, तर्हि अस्माकं लक्ष्यं भविष्यति यत् एते नोट अग्रिमवित्तवर्षस्य आरम्भे प्रचलने आगच्छेयुः।
आरबीआई-गवर्नर इत्यस्य अनुसारं पॉलिमर-नोट इत्यादिनां कृते आवश्यकस्य विशेष-सामग्रीस्य क्रय-प्रक्रिया प्रारब्धा अस्ति। अस्याः कृते निविदाः आमन्त्रिताः सन्ति। तदनन्तरं गुणवत्ता-परीक्षणं, सुरक्षामानकानां परीक्षणं तथा विभिन्नानां प्राविधिक-अनुमोदनानां प्राप्तिः करिष्यते। सः अवदत् यत् अस्याः सम्पूर्ण-प्रक्रियायाः अन्तर्गतं बहुस्तरीय-परीक्षणानि अत्याधुनिक-सुरक्षाविशेषताश्च समाविष्टाः भविष्यन्ति। सञ्जय-मल्होत्रः अवदत् यत् सर्वाः औपचारिकताः पूर्णाः कृत्वैव एते नोट विपण्यां प्रचलने आनयिष्यन्ते। यदि योजना-निर्दिष्टानुसारं कार्यं प्रचलति, तर्हि आगामिवित्तवर्षस्य आरम्भे एते नोट सामान्यजनानां कृते प्रकाशिताः भवितुं शक्नुवन्ति।
मल्होत्रा रुप्यकस्य सुदृढतां प्रति अवदत् यत् विदेशीय-पूञ्जी-प्रवाहस्य अधिक-त्वेऽपि रुप्यके अपेक्षितवृद्धिः न अभवत्। सः अवदत् यत् यदि वैश्विकं युद्धं न्यूनं भवति, तर्हि रुप्यके अधिका सुदृढता सम्भाविता अस्ति। मल्होत्रा अवदत् यत् आरबीआई-संस्थायाः प्रयासः भविष्यति यत् रुप्यकस्य गतिः व्यवस्थितं स्थिरं च स्वरूपं धारयेत्।
पॉलिमर-नोट विशेषप्रकारकेण प्लास्टिक-सदृशेन कृत्रिम-पदार्थेन निर्मीयते। अस्मिन् दृढायाः शिथिलतायाश्च प्लास्टिक-फिल्म इत्याख्यायाः पटलस्य उपयोगः भवति, यस्मिन् नोट इत्यस्य मुद्रणं क्रियते। एते नोट कागद-निर्मितेभ्यः नोट इत्येतेभ्यः अधिकं स्थायिन: भविष्यन्ति तथा शीघ्रं क्षतिग्रस्ताः न भविष्यन्ति।
सर्वकारेण आरबीआई-संस्थायै १०-रुप्यकाणां २०-रुप्यकाणां च पॉलिमर-नोट इत्यादिनां प्रकाशनस्य अनुमतिः पूर्वमेव प्रदत्ता अस्ति। प्रारम्भिकचरणे पायलट्-परियोजनायाः अन्तर्गतं प्रायः द्वौ अर्बुदौ प्लास्टिक्-नोट मुद्रिताः भविष्यन्ति। एतेषां सीमितस्तरे परीक्षणं करिष्यते, येन तेषां गुणवत्ता, स्थायित्वं तथा सामान्यजनानां प्रतिक्रिया च आकलयितुं शक्यते।
Hindusthan Samachar / Divya Ranjan