डीपीएल - सकारात्मकचिन्तनेन उत्तमरणनीत्या च विजयः प्राप्तः : आयुष-दोसेजः
नवदिल्ली, ०५ अगस्तमासः (हि.स.)।दिल्ली प्रीमियर लीग २०२६ स्पर्धायां साउथ दिल्ली सुपरस्टार्जदलस्य उपरि विजयम् अनन्तरं वेस्ट दिल्ली लायन्स-दलस्य कार्यवाहक-नायकः आयुष-दोसेजः दलस्य प्रदर्शनस्य प्रशंसां कृत्वा अवदत् यत् क्रीडकाः सकारात्मकचिन्तनेन सह क्री
वेस्ट दिल्ली लायंस के कार्यवाहक कप्तान आयुष दोसेजा


नवदिल्ली, ०५ अगस्तमासः (हि.स.)।दिल्ली प्रीमियर लीग २०२६ स्पर्धायां साउथ दिल्ली सुपरस्टार्जदलस्य उपरि विजयम् अनन्तरं वेस्ट दिल्ली लायन्स-दलस्य कार्यवाहक-नायकः आयुष-दोसेजः दलस्य प्रदर्शनस्य प्रशंसां कृत्वा अवदत् यत् क्रीडकाः सकारात्मकचिन्तनेन सह क्रीडाङ्गणम् अवतीर्य स्वरणनीतिं सम्यग्रूपेण सफलीकृतवन्तः।

दोसेजः अवदत् अयं विजयः अस्माकं कृते अत्यन्तं महत्त्वपूर्णः आसीत्। ह्यः प्राप्तस्य पराजयस्य अनन्तरं वयं सकारात्मक-मानसिकतया पुनरागन्तुम् इच्छामः स्म। वयं उत्तमां योजनाम् अरचयाम, सकारात्मकभावेन स्थितवन्तः, स्व-रणनीतिं च सम्पूर्णतया कार्यरूपेण परिणीतवन्तः। कार्यवाहक-नायकत्वेन क्रीडकैः यथा उत्तरदायित्वम् उढम्, तेन अहम् अत्यन्तं सन्तुष्टः अस्मि।

तेन स्पर्धायाः नायकस्य मयङ्क-गुसाईं इत्यस्य विशेषप्रशंसा कृता। गुसाईं चत्वर्षु ओवर इत्येतेषु केवलं १३ धावनाङ्कान् दत्त्वा विकेट-त्रयं प्राप्तवान्, अनन्तरं दशसु कन्दुकेषु नाबाद इति रूपेण १९ धावनाङ्कान् अर्जयित्वा दलस्य विजयाय महत्त्वपूर्णं योगदानम् अयच्छत्।

दोसेजः अवदत् मयङ्कः उत्कृष्टं कन्दूकक्षेपणम् अकरोत्। सः श्रेष्ठः सर्वाङ्गक्रीडकः अस्ति, किन्तु अद्य तस्य कन्दूकक्षेपणमेव स्पर्धायाः प्रवाहम् अपरिवर्तयत्। टी-२० स्पर्धायां चत्वर्षु ओवर इत्यादिषु केवलं १३ धावनाङ्कान् दत्त्वा विकेट्-त्रयं प्राप्तुं नूनम् उत्कृष्टं प्रदर्शनम् अस्ति। सः विजयस्य सर्वाधिकं योगदानम् अयच्छत्, अतः 'प्लेयर ऑफ दि मैच' इति सम्मानस्य योग्यः आसीत्।

स्व-बल्ला इत्यस्य प्रहारस्य विषये दोसेजः अवदत् यदा अहं बल्ल-प्रहाराय आगच्छम्, तदा प्रारम्भिकविकेट इत्यादिनां पतनात् स्थितिः सामान्या चिन्तापूर्णा आसीत्। मम योजना प्रथमं कतिपयानि कन्दुकानि क्रीडित्वा परिस्थितिः ज्ञातव्या आसीत्। ततः अवसरान् प्राप्य अहं सकारात्मकक्रीडां प्रदर्श्य यथाशीघ्रं लक्ष्यं प्राप्तुं प्रयत्नम् अकरवम्।

वृष्टिप्रभावितपरिस्थितीनां विषये सः अवदत् वृष्टेः कारणात् अस्माकं योजनासु किञ्चित् परिवर्तनं कर्तव्यम् अभवत्, अन्तिम-एकादशेऽपि परिवर्तनानि कर्तव्यानि अभवन्। तथापि दलस्य प्रत्येकं क्रीडकः अवसरस्य कृते सज्जः आसीत्। सर्वे परिस्थितीनाम् अनुरूपं स्वान् अनुकूलितवन्तः तथा च दलस्य विजयाय योगदानम् अयच्छन्।

अनेन विजयेन वेस्ट दिल्ली लायन्सदलं २०२६ स्पर्धायां तिसृषु स्पर्धासु द्वितीयं विजयम् अलभत तथा अङ्कतालिकायां चत्वारः अङ्काः प्राप्ताः।

Hindusthan Samachar / Divya Ranjan