नेपालेन इण्डोनेशियादेशेन च सह संस्कृतसहयोगाय नवीनदिशायाः प्रवर्तने प्रयतमानः उत्तराखण्डः
देहरादूनम्, ०५ अगस्तमासः (हि.स.)। विश्वसंस्कृतदिवसात् पूर्वम् उत्तराखण्डराज्येन संस्कृतस्य वैश्विकप्रचारप्रसाराय भारतीयज्ञानपरम्परायाश्च विस्ताराय नवीनप्रयत्नः कृतः। अनेन प्रयत्नेन नेपालेन इण्डोनेशियादेशेन च सह शैक्षणिकसांस्कृतिकसहयोगस्य सुदृढीकरणा
सचिव दीपक कुमार नेपाल दूतावास में कार्यवाहक राजदूत डॉ.सुरेन्द्र थापा से भेंट करते हुए।


सचिव दीपक कुमार नेपाल दूतावास में कार्यवाहक राजदूत डॉ.सुरेन्द्र थापा से भेंट करते हुए।


देहरादूनम्, ०५ अगस्तमासः (हि.स.)। विश्वसंस्कृतदिवसात् पूर्वम् उत्तराखण्डराज्येन संस्कृतस्य वैश्विकप्रचारप्रसाराय भारतीयज्ञानपरम्परायाश्च विस्ताराय नवीनप्रयत्नः कृतः। अनेन प्रयत्नेन नेपालेन इण्डोनेशियादेशेन च सह शैक्षणिकसांस्कृतिकसहयोगस्य सुदृढीकरणाय प्रयासाः तीव्रीकृताः।

राज्यस्य संस्कृतशिक्षासचिवः दीपककुमारः नवदेहल्यां नेपालदूतावासे इण्डोनेशियादूतावासे च पृथक् उपवेशनेषु संस्कृतानुसन्धानस्य शैक्षणिकविनिमयस्य संयुक्तशोधस्य च प्रवर्धनविषये विस्तृतां चर्चाम् अकरोत्।

संस्कृतशिक्षासचिवः दीपककुमारः नेपालदूतावासे कार्यवाहकराजदूतं डा सुरेन्द्रथापाम् अभ्यगच्छत्। तत्र संस्कृतस्य वैश्विकमहत्त्वस्य भारतनेपालयोः शैक्षणिकसहयोगस्य च अधिकसुदृढीकरणविषये विचारविमर्शः अभवत्। उपवेशने उत्तराखण्डसंस्कृतविश्वविद्यालयस्य नेपालसंस्कृतविश्वविद्यालयस्य च मध्ये प्रस्तावितस्य समझौताज्ञापनस्य संयुक्तानुसन्धानस्य आचार्यविद्यार्थिविनिमयस्य संस्कृताध्ययनविस्तारस्य च विषये चर्चा कृता। डॉ सुरेन्द्रथापा उत्तराखण्डसरकारस्य प्रयत्नान् प्राशंसत। सः अवदत् यत् नेपालस्य संस्कृतपरम्परा अतीव समृद्धा अस्ति तथा च उभयदेशयोः सहयोगेन संस्कृतशिक्षायाः अनुसन्धानस्य च नूतना गतिः भविष्यति।

दीपककुमारः अवदत् यत् उत्तराखण्डस्य राज्यपालः लेफ्टिनेन्टजनरलः निवृत्तः गुरमीतसिंहः संस्कृतभाषां सरलां व्यवहारिकीं च भाषाम् मन्यते। सः कृत्रिमबुद्धेः माध्यमेन संस्कृताध्ययनं शुद्धोच्चारणं च अधिकं सुगमं कर्तुं निरन्तरं प्रेरयति। सः अपि अवदत् यत् मुख्यमन्त्रिणः पुष्करसिंहधामिनो नेतृत्वे राज्यसर्वकारः संस्कृतस्य संरक्षणसंवर्धनयोः कृते नानाविधान् अभिनवान् प्रयत्नान् करोति तथा च राज्यस्य सर्वेषु त्रयोदशजनेषु त्रयोदश संस्कृतग्रामाः स्थापिताः सन्ति।

सः अवदत् यत् अगस्तमासस्य अष्टाविंशतितमे दिने विश्वसंस्कृतदिवसस्य अवसरः भविष्यति। तस्मिन् दिने उत्तराखण्डसंस्कृतविश्वविद्यालये उत्तराखण्डसंस्कृतसंस्थाने संस्कृतग्रामेषु विविधेषु गुरुकुलेषु च संगोष्ठ्यः व्याख्यानानि कार्यशालाः सांस्कृतिककार्यक्रमाः जनजागरूकताअभियानानि च आयोजितानि भविष्यन्ति। एतेषां कार्यक्रमाणां उद्देश्यः आधुनिकसमाजे संस्कृतभाषायाः प्रासङ्गिकतां प्रकाशयितुम् अस्ति।

एतस्मिन् एव क्रमे संस्कृतशिक्षासचिवः दीपककुमारः नवदेहल्यां स्थितस्य इण्डोनेशियागणराज्यस्य दूतावासे कार्यवाहकराजदूतं युधोसासोंगकोम् अपि अभ्यगच्छत्। तत्र उत्तराखण्डस्य इण्डोनेशियादेशस्य च मध्ये संस्कृतस्य भारतीयज्ञानपरम्परायाश्च क्षेत्रे शैक्षणिकसांस्कृतिकसहयोगस्य वर्धनविषये चर्चा अभवत्। सः उत्तराखण्डसरकारेण संस्कृतभाषायै द्वितीयराजभाषास्थितेः प्रदाने तस्याः प्रचारप्रसाराय च क्रियमाणानां प्रयत्नानां विषये संसूचनाम् अददात्। सः अवदत् यत् राज्यसर्वकारः संस्कृतभाषायाः वैश्विकप्रतिष्ठायै निरन्तरं कार्यं करोति।

सः अवदत् यत् राज्ये संस्कृतायोगस्य गठनप्रक्रिया आरब्धा अस्ति। अस्य विषये देशस्य विभिन्नप्रदेशेभ्यः सुझावाः आमन्त्रिताः सन्ति। एते सुझावाः विश्वसंस्कृतदिवसात् पूर्वम् उत्तराखण्डसंस्कृतविश्वविद्यालयाय समर्पिताः भविष्यन्ति। सः विश्वासं व्यक्तवान् यत् इण्डोनेशियादेशस्य विश्वविद्यालयैः अन्यैः शैक्षणिकसंस्थाभिः च सह सहयोगस्य स्थापनेन संस्कृतस्य भारतीयज्ञानपरम्परायाश्च अध्ययनम् अन्ताराष्ट्रियस्तरे नूतनां गतिं प्राप्स्यते।

दीपककुमारः अवदत् यत् इण्डोनेशियाभाषायाम् अद्यापि संस्कृतमूलकाः बहवः शब्दाः प्रचलन्ति। एते उभयदेशयोः शताब्दीपरम्परागतसांस्कृतिकसम्बन्धानां प्रमाणरूपाः सन्ति। सः प्रधानमन्त्रिणः नरेन्द्रमोदिनः नवीनाम् इण्डोनेशियायात्राम् उल्लिख्य अवदत् यत् इण्डोनेशियादेशस्य राष्ट्रपतिः प्रबोवोसुबियान्तो अपि अङ्गीकृतवान् यत् इण्डोनेशियाभाषायाः बृहदंशः संस्कृतभाषया प्रभावितः अस्ति।

सः प्रस्तावम् अकरोत् यत् हरिद्वारस्थितम् उत्तराखण्डसंस्कृतविश्वविद्यालयम् उत्तराखण्डसंस्कृतसंस्थानं च इण्डोनेशियादेशस्य विश्वविद्यालयैः अन्यैः शैक्षणिकसंस्थाभिः च सह सहमतिज्ञापनं कृत्वा संयुक्तानुसन्धानम् आचार्यविद्यार्थिविनिमयं भारतीयज्ञानप्रणाल्याः सांस्कृतिकाध्ययनस्य च क्षेत्रे दीर्घकालिकसहयोगं विकसितुं शक्नुतः। सः अवदत् यत् उत्तराखण्डस्य एषा पहल संस्कृतभाषायाः वैश्विकमञ्चे नवीनां प्रतिष्ठां प्रदास्यति तथा च भारतस्य सांस्कृतिककूटनीतिम् अपि सुदृढीकरिष्यति।

---------------

Hindusthan Samachar / अंशु गुप्ता