मुख्यसचिवो वाह्य सहायतापरियोजनानां समीक्षा कृता, आधारभूतसंरचनायाः विकासे दत्तं बलम्
देहरादूनम्, 05 अगस्तमासः (हि.स.)।उत्तराखण्डस्य मुख्यसचिवः आनन्दबर्द्धनः बुधवासरे वाह्यसहायतितपरियोजनानां प्रगतिसमीक्षाम् अकरोत्। मुख्यसचिवेन अस्याः समीक्षायाः अन्तर्गतं सम्पन्नानां, प्रचलितानां तथा भाविपरियोजनानां विषये विस्तरेण सूचना गृहीता तथा आव
अधिकारियों को निर्देश देते मुख्य सचिव।


देहरादूनम्, 05 अगस्तमासः (हि.स.)।उत्तराखण्डस्य मुख्यसचिवः आनन्दबर्द्धनः बुधवासरे वाह्यसहायतितपरियोजनानां प्रगतिसमीक्षाम् अकरोत्। मुख्यसचिवेन अस्याः समीक्षायाः अन्तर्गतं सम्पन्नानां, प्रचलितानां तथा भाविपरियोजनानां विषये विस्तरेण सूचना गृहीता तथा आवश्यकनिर्देशाः प्रदत्ताः। तेन वाह्यसहायतितपरियोजनानामन्तर्गतं प्रदेशे आधारभूतसंरचनाविकासे विशेषं ध्यानं दातुं निर्देशाः प्रदत्ताः।

मुख्यसचिवेन सम्पन्नपरियोजनानां क्लोजररिपोर्ट् निधिप्रदायिकासंस्थायै, आर्थिककार्यविभागाय, वित्तमन्त्रालयाय, भारतसरकारस्य सम्बन्धितविभागाय च अनिवार्यरूपेण प्रेषणीयेति निर्देशाः प्रदत्ताः। तेन उक्तं यत् मन्दगत्या प्रचलन्तीनां सर्वासां परियोजनानां निरन्तरम् अनुश्रवणं कृत्वा आवश्यकपदानि स्वीकरणीयानि। परियोजनाः समये सम्पादयितुं जनशक्तेः यन्त्राणां च वृद्धिं कृत्वा सर्वाण्यावश्यकपदानि स्वीकरणीयानीति अपि निर्देशाः प्रदत्ताः।

मुख्यसचिवेन ऊर्जाविभागस्य अन्तर्गतं मसूरी तथा नैनीतालनगरयोः कृते भूम्यधः विद्युत्प्रवाहरेखापरियोजनायाः प्रस्तावः सज्जीकरणीय इति निर्देशः प्रदत्तः। तेन उत्तराखण्डसमन्वितउद्यानिकीपरियोजनायां शीघ्रगत्या कार्यसञ्चालनार्थं समर्पितपीएमयू संस्थापनस्य आवश्यकता प्रतिपादिता। तथा समर्पितपीएमओ स्थापयित्वा निरन्तरम् अनुश्रवणं कुर्वन् परियोजना समये सम्पादनीयेति अपि उक्तम्।

मुख्यसचिवेन शिक्षाक्षेत्रे विशेषतः प्राविधिकशिक्षाक्षेत्रे व्यवस्थायाः सुदृढीकरणदिशि कार्यं कर्तव्यमिति बलं दत्तम्। तेन उक्तं यत् प्राविधिकशिक्षायां अभियान्त्रिकीमहाविद्यालयेषु, पॉलिटेक्निकसंस्थासु तथा आईटीआईसंस्थासु आधारभूतसंरचनाविकासार्थं कार्यस्य आवश्यकता वर्तते।

अस्मिन् अवसरे प्रमुखसचिवः आर. मीनाक्षीसुन्दरम्, सचिवः नितेशकुमारझा, दिलीपजावलकरः, डॉ. पङ्कजकुमारपाण्डेयः, डॉ. रञ्जीतकुमारसिन्हा, रञ्जीतसिंहचौहानः, विनोदकुमारसुमनः, अपरसचिवः विनीतकुमारः, हिमांशुखुराना तथा अन्ये वरिष्ठाधिकारिणः उपस्थिताः आसन्।

------------

Hindusthan Samachar / Dheeraj Maithani