Enter your Email Address to subscribe to our newsletters

- काशीतः आगतायाः पवित्र मृत्तिकायाः कलशस्य विभिन्न मंदिरेषु पूजनं, सामाजिक समरसतायाः दत्तः संदेशः
मीरजापुरम्, 05 अगस्तमासः (हि.स.)।
भारतीयजनतापक्षस्य परतया बुधवासरे सन्तशिरोमणेः रविदासस्य षट्शतपञ्चाशत्तमजयंतीवर्षस्य उपलक्ष्ये सञ्चाल्यमानस्य समरसतासंकल्पाभियानस्य अन्तर्गतं मझवांविधानसभाक्षेत्रस्य कछवामण्डले कलशवन्दनकार्यक्रमः आयोजितः।
भाजपाजिलाध्यक्षः लालबहादुरसरोजस्य नेतृत्वे काशीस्थितायाः सन्तरविदासजन्मस्थल्याः आनीतस्य पवित्रमृत्तिकाकलशस्य श्रद्धापूर्वकं पूजनम् अभवत्। कार्यक्रमस्य अन्तर्गतं कछवानगरपञ्चायतिस्थिते हनुमन्मन्दिरे, मातापटनदेवीमन्दिरे, शङ्करमन्दिरे, रामलीलामैदानस्थिते हनुमन्मन्दिरे तथा दलितबस्तिस्थिते दुर्गामातामन्दिरे कलशवन्दनं पूजनार्चनं च सम्पन्नम्। बहुसंख्यया पक्षकार्यकर्तारः स्थानीयजनाश्च कार्यक्रमे सहभागिनः अभवन्।
मुख्यातिथिः भाजपाजिलामहामन्त्री डॉ. सी.एल. बिन्द अवदत् यत् सन्तशिरोमणेः गुरोः रविदासस्य जीवनं सामाजिकसमरसतायाः, समानतायाः मानवतायाश्च सन्देशं ददाति। तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी तथा मुख्यमन्त्री योगीआदित्यनाथस्य सरकारः दरिद्रकल्याणस्य विविधयोजनानां माध्यमेन समाजस्य अन्तिमव्यक्तेः पर्यन्तं सुविधाः प्रापयितुं कार्यं करोति।
कार्यक्रमस्य अध्यक्षतां मण्डलोपाध्यक्षः उमाशङ्करबिन्द अकरोत्, सञ्चालनं च जिलामन्त्री कुँवरअनिलकुमारसिंह अकरोत्।
अस्मिन् अवसरे जिलासहमाध्यमप्रभारी रतनकुमारसिंह, निवर्तमानमण्डलाध्यक्षः राजनकेसरी, सतेशसिंह, अध्यक्षप्रतिनिधिः राजेशजायसवाल, बृजेशगुप्त, सभासदः अवनीशतिवारी, तारकनाथभारती, पवनमिश्र, राकेशकुमारसिंह, सुभाषजायसवाल, मिथिलेशचौबे, मण्डलमहामन्त्री मधुसूदनशर्मा, अनिलबिन्द सहिताः बहुसंख्याकाः पदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani