Enter your Email Address to subscribe to our newsletters

वाराणसी, ०५ अगस्तमासः (हि.स.)। श्रावणमासस्य पावनावसरे महादेवस्य काश्याश्च आध्यात्मिक-महिमायै समर्पितं भोजपुरी-भक्तिगीतम् ‘हे भोले बाबा, मनवा के हमरा बनारस बना दऽ...’ भोजपुरी-आईटी-सेलस्य आधिकारिके यूट्यूब-पटले प्रकाशितम्। बुधवासरे गीतस्य रचनाकारः मनोज-‘भावुकः’ इति एतां सूचनां दत्तवान्।
सः अवदत् यत् एतत् गीतं तस्य कृते केवलं भक्तिगीतं न, अपितु बनारस-नगरस्य प्रति तस्य श्रद्धायाः, आस्थायाः, जीवन-दृष्टेश्च सङ्गीतमयी अभिव्यक्तिः अस्ति। अस्मिन् गीते बनारस-नगरं केवलं नगररूपेण न, अपितु भक्तेः, मुक्तेः, आत्मिक-चेतनायाश्च प्रतीकरूपेण प्रस्तुतं कर्तुं प्रयासः कृतः अस्ति।
मनोज-भावुकः अवदत् यत् वस्तुतः एषा महादेवं प्रति प्रार्थना अस्ति—अस्माकं अन्तःकरणे तादृशं ‘बनारस’ वसेत्, यत्र जीवनस्य सुखदुःखाभ्याम् उपरि उत्थाय शिवस्य करुणा, सन्तुलनम् आत्मिक-शान्तिश्च निवसन्तु। गीतस्य अन्तरेषु काशी-विश्वनाथ-मन्दिरं, मणिकर्णिका-घट्टः, धर्म-अर्थ-काम-मोक्षाः तथा लङ्का-चतुष्पथ: इत्यादीनां प्रतीकानां माध्यमेन जीवनस्य गूढान् आध्यात्मिकान् दार्शनिकान् च प्रश्नान् सरलेन भोजपुरी-भाषया व्यक्तं कृतम् अस्ति।
गीतस्य पङ्क्तिषु उक्तम् अस्ति—“काशी-विश्वनाथस्य मन्दिरं धर्मस्य मार्गं दर्शयति, मणिकर्णिकायाः घट्टः तु मोक्षस्य रहस्यं कथयति। सहैव द्वौ मार्गौ स्तः, यौ मायायां जनान् भ्रमयतः। धर्म-अर्थ-काम-मोक्षस्य मार्गे लङ्का-चतुष्पथ: अस्ति। कुत्र गच्छेम इति चिन्तयन् चतुष्पथे एका गोणी वो इव जनः तिष्ठति।”
मनोज-भावुकस्य मतानुसारं बनारसः केवलं भौगोलिकं स्थानं न, अपितु मनसः सा अवस्था अस्ति, यत्र भक्तिः, करुणा, वैराग्यम् आत्मिक-शान्तिश्च एकत्र निवसन्ति। एतदेव अस्य गीतस्य मूलभावः अस्ति। बनारसस्य आध्यात्मिक-महिमायाः विषये भोजपुरी-भाषायां विरलानि गीतानि रचितानि सन्ति। तस्य विश्वासः अस्ति यत् एतत् गीतं शिवभक्तै: सह सङ्गीत-साहित्य-प्रेमिणाम् अपि हृदयं स्पृशति।
अस्य भक्तिमयस्य गीतस्य स्वरं सुप्रसिद्धा गायिका सुरभि-कश्यपः तथा गायकः अर्जुन-पाण्डेयः दत्तवन्तौ। सङ्गीतं भोजपुरी-चलचित्र-जगतः कृते अनेकानि लोकप्रिय-गीतानि प्रदत्तवान् रजनीश-मिश्रः रचितवान्। गीतस्य परिकल्पना आस्था-द्विवेदी कृतवती। निर्देशकः सुमित-तिवारी, छायाकारः सुधांशु-सिंहः, दृश्य-निर्माणं ‘वन शॉट फिल्म्स’ संस्थया तथा निर्माता शैलेन्द्र-द्विवेदी अस्ति।
उल्लेखनीयं यत् गीतकारस्य मनोज-भावुकस्य सङ्गीतकारस्य रजनीश-मिश्रस्य च युग्मेन पूर्वमपि ‘तोर बउरहवा रे माई’, ‘आपन कहाये वाला के बा’, ‘दुलहिनिया नाच नचावे’ तथा ‘मेरे राम’ इत्यादीनि चर्चितानि स्मरणीयानि च गीतानि प्रदत्तानि सन्ति।
मनोज-भावुकः अवदत् यत् अद्य गीतानां जगति दर्शक-सङ्ख्यायाः स्पर्धा अस्ति। किन्तु तस्य मतानुसारं दर्शक-सङ्ख्यायाः अपेक्षया अधिकं महत्त्वपूर्णम् अस्ति यत् भोजपुरी-भाषायां तादृशानि गीतानि रच्येरन्, येषु अस्माकं संस्कृतिः, आस्था आत्मा च प्रतिबिम्बिताः भवन्ति। यदि ‘हे भोले बाबा, मनवा के हमरा बनारस बना दऽ’ इति गीतं श्रुत्वा कस्यचित् श्रोतुः मनसि बनारसः वसेत् तथा महादेवं प्रति श्रद्धा अधिका भवेत्, तर्हि सः स्वगीतस्य सफलता मन्यते।
गीतस्य अन्तरा अस्ति—“हे भोले बाबा, हे शम्भु बाबा, मनवा के हमरा बनारस बना दऽ, दुःखं वा सुखं वा, मस्ती में राखऽ, जिनगी के नइया पार लगा दऽ...”
Hindusthan Samachar / Divya Ranjan