Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 05 अगस्तमासः (हि.स.)।प्रधानमन्त्रिणः नरेन्द्रमोदिनः जुलाईमासीयस्य 23 दिनाङ्कस्य एकस्य चलच्चित्रस्य फेसबुकमाध्यमात् अपसारणस्य विषये सञ्चारसूचनासम्बद्धया संसदीयसमित्या मेटासंस्थायाः प्रमुखात् मार्कजुकरबर्ग इत्यस्मात् त्रिदिनाभ्यन्तरे निरपेक्षक्षमायाचनां कर्तुम् उक्तम्। समित्या उक्तं यत् यदि तथा न क्रियते, तर्हि भारते मेटासंस्थायै प्रदीयमानानां वैधानिकसंरक्षणानां विशेषछूटीनां च प्रत्याहारः विचाराधीनः भविष्यति।
संसदीयसमित्या बुधवासरे मेटासंस्थायाः प्रमुखात् मार्कजुकरबर्ग इत्यस्मात् निरपेक्षक्षमायाचनायाः अपेक्षा कृता। समित्या उक्तं यत् यदि पत्रप्राप्तेः त्रिदिनाभ्यन्तरे क्षमायाचनां न क्रियते, तर्हि सूचनाप्रौद्योगिकीअधिनियमस्य धारा ७९(३) अन्तर्गतं प्रदत्तस्य वैधानिकसंरक्षणस्य प्रत्याहारः तथा प्रकाशकरूपेण तस्य विरुद्धं कार्यवाहीकरणस्य विषये विचारः क्रियेत।
अस्मिन्नेव विषये सूचनाप्रौद्योगिकीमन्त्रालयस्य मेटासंस्थायाश्च अधिकारिणां मध्ये द्विदिवसीयम् उपवेशनम् अद्य अत्र प्रारब्धम्। भारतसरकारेण मेटासंस्थायाः वैश्विकदलस्य सदस्याः अपि देहलीनगरम् आहूताः।
संसदीयसमित्या सञ्चारसूचनाप्रौद्योगिकीमन्त्रालयाय प्रेषिते पत्रे उक्तं यत् एषः निर्णयः २०२६ तमस्य वर्षस्य अगस्तमासस्य ०३ दिनाङ्के आयोजितायां सञ्चारसूचनाप्रौद्योगिकीसम्बद्धायाः संसदीयस्थायिसमितेः उपवेशने गृहीतः। अस्मिन् उपवेशने गृहमन्त्रालयस्य, इलेक्ट्रॉनिक्ससूचनाप्रौद्योगिकीमन्त्रालयस्य तथा स्नैपचैट्, गूगल्, एक्स, मेटा, यूट्यूब इत्यादीनां प्रतिनिधयः सहभागिनः आसन्।
समित्या प्रधानमन्त्रिणः मोदिनः तस्मिन् चलच्चित्रे विशेषगम्भीरतया विचारः कृतः, यस्मिन् तेन परीक्षाविवादानां प्रश्नपत्रप्रस्रवणस्य (पेपरलीक) विरुद्धं सरकारस्य कार्यवाह्याः विषये छात्रान् जनरेशन-जी इत्यस्य युववर्गं च सम्बोधितम् आसीत्। समितेः अनुसारेण तत् चलच्चित्रं फेसबुकमाध्यमात् प्रायः पञ्चषट्घण्टापर्यन्तम् अपसारितम् आसीत्।
उपवेशने बालयौनशोषणसम्बद्धसामग्रीणां तथा महिलानां विरुद्धम् अपमानजनकसामग्रीणां सामाजिकमाध्यमेषु प्रसारणविषये अपि चिन्ता व्यक्ता। समित्या उक्तं यत् यदि कश्चित् मध्यस्थमञ्चः (इण्टरमीडियरी प्लेटफॉर्म्) एतादृशीं सामग्रीम् अपसारयितुं विफलः भवति, तर्हि तस्य विरुद्धम् अपि सूचनाप्रौद्योगिकीअधिनियमस्य धारा ७९(३) अन्तर्गतं कार्यवाही करणीया।
एतदतिरिक्तं हैदराबादसाइबरपुलिसेन निवेशवञ्चनायाः एकस्मिन् प्रकरणे गूगल्इण्डियायाः प्रमुखस्य सहअभियुक्तरूपेण नामनिर्देशनस्य विषये अपि चर्चा अभवत्। अभियोगकर्तृभिः आरोपः कृतः यत् मिथ्यानिवेशानुप्रयोगैः तेषां अष्टचत्वारिंशल्लक्षरूप्यकाधिकस्य धनस्य हानिः अभवत्। समित्या इच्छा व्यक्ता यत् भारतसरकारः गूगल्इण्डियायाः विरुद्धम् अपि एतादृशीमेव कार्यवाहीं विचारयेत्। प्रधानमन्त्रिणः चलच्चित्रस्य अपसारणविषये मेटासंस्थातः स्पष्टीकरणम् अपेक्षितम् अस्ति तथा मार्कजुकरबर्ग इत्यस्मात् क्षमायाचनायाः अपि अपेक्षा कृता अस्ति।
-----------
Hindusthan Samachar / Dheeraj Maithani