Enter your Email Address to subscribe to our newsletters

लखनऊ, ०६ अगस्तमासः (हि.स.)। पण्डित-अटलबिहारी-वाजपेयी-स्मारक-प्रतिष्ठानस्य पक्षत: प्रतिवर्षमिव अस्मिन् वर्षेऽपि भारतरत्न-समलङ्कृतस्य श्रद्धेय-स्य पण्डित-अटलबिहारी-वाज-पेयिनः पुण्यतिथिः १६ अगस्तमासे सम्यक्तया आचरिष्यते। अस्मिन् सम्बन्धे राजभवन-कालोनी-स्थले आयोजितायां सभायां कार्यक्रमस्य सज्जतायाः समीक्षा कृता।
एतद् प्रदेशस्य उपमुख्यमन्त्रिणा ब्रजेश-पाठकेन उक्तम्। डॉ. ब्रजेश-पाठकः अवदत् यत् १६ अगस्ते केजीएमयू-स्थिते अटलबिहारी-वाजपेयी-विज्ञान-सम्मेलन-केन्द्रे “अटल-स्मृति-सन्ध्या” इति कार्यक्रमस्य आयोजनं भविष्यति। अस्मिन् कार्यक्रमे पद्मश्री-समलङ्कृतः प्रख्यातः कविः प्रो. अशोक-चक्रधरः एकल-काव्यपाठं करिष्यति। उपमुख्यमन्त्री अवदत् यत् कार्यक्रमस्य मुख्यातिथिः मुख्यमन्त्री योगी-आदित्यनाथः भविष्यति तथा विशिष्टातिथयः केन्द्रीय-राज्यमन्त्री एवं भाजपापक्षस्य प्रदेशाध्यक्षः पङ्कज-चौधरी तथा उपमुख्यमन्त्री केशवप्रसाद-मौर्यः भविष्यतः।
सभायां भाजपायाः प्रदेश-उपाध्यक्षः नीरज-सिंहः, महानगराध्यक्षः आनन्द-द्विवेदी, विधानपरिषदः सदस्यः सन्तोष-सिंहः, त्र्यम्बक-त्रिपाठी, लखनऊ-व्यापार-मण्डलस्य मन्त्री नारायण-शुक्लः, डॉ. के.के. सिंहः, उपमहापौरः पम्मी-तिवारी, संजय-चौधरी, अखिल-भारतीय-भोजपुरी-समाजस्य राष्ट्रियाध्यक्षः प्रभुनाथ-रायः, विनायक-पाण्डेयः, रमेश-तूफानी, अञ्जनी-शुक्लः, रमाशङ्कर-शुक्लः, पूर्व-आरक्षक-महानिदेशकः डॉ. सूर्यकुमार-शुक्लः, लोकनाथ-अग्रवालः तथा अन्ये गणमान्यजनाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan