Enter your Email Address to subscribe to our newsletters

– १५ अगस्ततः २६ जनवरीपर्यन्तं विशेष-अभियानम्; प्रत्येकस्मिन् ग्रामे मुक्तिधामः, प्रत्येकं बालिकायै विद्यालयेषु शौचालयनिर्माणम्
– वीबी-जी राम जी अभियानेन ग्रामीण-विकासाय नूतना गतिः, ६,८५५ कोटि-रूप्यकैः रोजगारस्य आधारभूत-सुविधानां च विस्तारः
रायपुरम्, ०६ अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेव-सायः अद्य नवा-रायपुरस्थिते महानदी-भवने आयोजितायां पत्रकार-वार्तायां विकसित-भारत–रोजगार-आजीविका-गारण्टी-मिशन ‘वीबी-जी राम जी’ इत्यस्य अन्तर्गतं राज्यव्यापिनः ‘मम पुत्री–मम अभिमानं’ अभियानस्य शुभारम्भम् अकरोत्।
तेन घोषणा कृता यत् १५ अगस्त २०२६ तः २६ जनवरी २०२७ पर्यन्तं प्रवर्तमानस्य अस्य विशेष-अभियानस्य अवधौ प्रदेशस्य प्रत्येकस्मिन् ग्रामे मुक्तिधाम्न: प्रतीक्षालयस्य च निर्माणं सुनिश्चितं भविष्यति। ग्रामीण-प्रदेशेषु सर्वेषु शासकीय-विद्यालयेषु बालिकानां कृते शौचालयनिर्माणमपि कारयिष्यते। मुख्यमन्त्री उक्तवान् यत् एतदभियानं पुत्रीणां सम्मानस्य, ग्रामीण-स्वच्छतायाः, सामाजिक-गरिम्णः तथा आधारभूत-सुविधानां सुदृढीकरणस्य दिशि राज्यसर्वकारस्य ऐतिहासिकः उपक्रमः अस्ति।
मुख्यमन्त्री सायः अवदत् यत् अभियानस्य अन्तर्गतं ग्रामीण-प्रदेशेषु शासकीय-विद्यालयेषु २८६.८५ कोटि-रूप्यकाणां व्ययेन ६,६७१ बालिका-शौचालयानां निर्माणं भविष्यति। प्रत्येकं शौचालयस्य निर्माणव्ययः ४.३० लक्ष-रूप्यकाणि निर्धारितः अस्ति। तथैव प्रदेशस्य ६,५२४ ग्रामेषु ३९१.४४ कोटि-रूप्यकाणां व्ययेन प्रतीक्षालयेन सह मुक्तिधामानि निर्मास्यन्ते, येषां प्रति-एकक-व्ययः ६ लक्ष-रूप्यकाणि भविष्यति। अपरं १८.२२ कोटि-रूप्यकाणां व्ययेन ५४९ मुक्तिधामानामपि निर्माणं भविष्यति, यान् प्रति-एकक-व्ययः ३.३२ लक्ष-रूप्यकाणि निर्धारितः अस्ति।
मुख्यमन्त्री अवदत् यत् जलसंरक्षणाय सर्वोच्च-प्राथमिकता प्रदाय राज्यस्य १०,०२७ निष्क्रिय-कूपेषु ५२.१४ कोटि-रूप्यकाणां व्ययेन सैण्ड्-फिल्टर तथा पुनर्भरण-संरचनानां निर्माणं कारयिष्यते। प्रति-एकक-व्ययः प्रायः ५२ सहस्र-रूप्यकाणि निर्धारितः अस्ति। अनेन भूजलस्तरस्य वृद्धिः, वर्षाजलस्य उत्तम-संरक्षणं तथा ग्रामीण-प्रदेशेषु पेयजल-संकटस्य न्यूनीकरणं भविष्यति। तेन अधिकारिणः निर्दिष्टा: यत् एतानि सर्वाणि कार्याणि प्राथमिकतया शीघ्रं स्वीकृत्य आरभ्यन्ताम्।
ग्रामीण-विकासस्य रोजगारस्य च बृहत्तमम् अभियानम्
मुख्यमन्त्री सायः अवदत् यत् वीबी-जी राम जी योजना समग्रे देशे १ जुलाई २०२६ तः प्रवर्तिता। योजनायाः अन्तर्गतं सर्वेषां विकास-कार्याणां चयनं ग्रामसभायाः अनुमोदनेन भविष्यति तथा मजदूरी-दरः वर्धयित्वा प्रतिदिनं ३०० रूप्यकाणि कृता। तेन उक्तं यत् एषा योजना प्रधानमन्त्रिणः नरेन्द्रमोदिनः ‘विकसित-भारत–२०४७’ सङ्कल्पं ग्रामे ग्रामे प्रापयितुं सशक्तं माध्यमं भविष्यति। चालू-वित्तीय-वर्षे मनरेगा तथा वीबी-जी राम जी योजनयोः माध्यमेन राज्याय प्रायः ६,८५५ कोटि-रूप्यकाणि प्राप्तानि भविष्यन्ति, यत् ग्रामीण-रोजगारस्य विकास-कार्याणां च कृते अद्यावधि बृहत्तमं वित्तीय-निवेशम् अस्ति। भारत-सर्वकारात् योजनायाः प्रथम-किस्तरूपेण १,५३८ कोटि-रूप्यकाधिकस्य वित्तीय-अनुमोदनमपि प्राप्तम्।
कृषकाणां श्रमिकाणां च हितयोः विशेष-ध्यानम्
मुख्यमन्त्री अवदत् यत् योजनायां कृषकाणां श्रमिकाणां च हितयोः समुचितं संतुलनं कृतम्। कृषि-कार्यकाले श्रमिकाणां उपलब्धता सुनिश्चितीकर्तुं वर्षे ६० दिवसपर्यन्तं योजनायाः कार्याणि स्थगितानि भविष्यन्ति, येन कृषि-रोजगारे च कश्चिद् प्रतिकूलः प्रभावः न भवेत्।
३१८ विकास-कार्यैः ग्रामाणां स्वरूपं परिवर्तिष्यते
मुख्यमन्त्री अवदत् यत् योजनायां ३१८ प्रकारकाणि कार्याणि चतसृषु मुख्य-श्रेणीषु समाविष्टानि। तेषु १०७ जलसंरक्षण-जलसंवर्धन-कार्याणि, ९० ग्रामीण-अधोसंरचना-विकास-कार्याणि, ८६ आजीविका-संवर्धन-कार्याणि तथा ३५ जलवाय्वनुकूलन-आपदा-प्रबन्धन-सम्बद्ध-कार्याणि सन्ति। जलसंरक्षणस्य अन्तर्गतं तडागाः, पुनप्पूरण-संरचनाः, सिञ्चन-विस्तारः, भूजल-संरक्षणम्, मृदा-संरक्षणम् तथा वृक्षारोपणं प्राथमिकतां प्राप्स्यन्ति। ग्रामीण-अधोसंरचनायां मार्गाः, पुलिकाः, पञ्चायत-भवनानि, आङ्गनबाडी-केन्द्राणि, अतिरिक्त-विद्यालय-कक्षाः, ग्रामीण-पुस्तकालयाः, प्रयोगशालाः, पाकशालागृहाणि, घन-द्रव-अपशिष्ट-प्रबन्धनम्, मुक्तिधामानि तथा पशु-चिकित्सालयाः विकसिताः भविष्यन्ति।
युक्तधारा-पटले ग्राम-पञ्चायत-कार्ययोजनायां राज्यं अग्रणी
मुख्यमन्त्री सायः अवदत् यत् वीबी-जी राम जी योजनायाः क्रियान्वयन-तयारिषु छत्तीसगढः राष्ट्रियस्तरे उत्कृष्टं प्रदर्शनं कृतवान्। श्रमिकाणां ९८ प्रतिशतं ई-केवाईसी सम्पन्नं कृत्वा राज्यं देशे प्रथमस्थानं प्राप्तवान्। परिसम्पत्तीनां ९९ प्रतिशत-भू-चिह्नीकरणेन द्वितीयस्थानमपि प्राप्तम्। युक्तधारा-पटलस्य माध्यमेन जीआईएस-आधारित-ग्राम-पञ्चायत-कार्ययोजना-निर्माणेऽपि राज्यं अग्रणी अभवत्।
५,५९१.४२ कोटि-रूप्यकाणां वित्तविवरणम्
मुख्यमन्त्री अवदत् यत् २०२६–२७ वित्तीय-वर्षाय वीबी-जी राम जी योजनायै ५,५९१.४२ कोटि-रूप्यकाणां प्रस्तावितं बजटं निर्धारितम्। अपरं अप्रैल-मासात् जून-मासपर्यन्तं प्रथम-त्रैमासिके एव १,२६४ कोटि-रूप्यकाणि व्ययीकृतानि, येन ग्रामीण-प्रदेशेषु विकास-कार्येषु उल्लेखनीया गतिः प्राप्ता।
पत्रकार-वार्तायां उपमुख्यमन्त्री तथा पञ्चायत-ग्रामीण-विकासमन्त्री विजय-शर्मा, अपर-मुख्य-सचिवा ऋचा-शर्मा, वीबी-जी राम जी आयुक्तः तारण-प्रकाश-सिन्हा, वरिष्ठ-अधिकारिणः तथा बहुसंख्यकाः पत्रकाराः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan