विमानस्य ऐन्धने इथेनॉलद्रवं मेलयितुं कश्चित् प्रस्तावो न : राममोहन नायडूः
नव दिल्ली, 06 अगस्तमासः (हि.स.)। केंद्रीयनागरविमाननमन्त्री के. राममोहननायडूः गुरुवासरे उक्तवान् यत् एविएशनटर्बाइनफ्यूल् इत्यस्मिन् इथेनॉलद्रव्यस्य मिश्रणस्य कश्चिदपि प्रस्तावः नास्ति। सः एतदपि उक्तवान् यत् विमाननसुरक्षासम्बद्धां मिथ्यासूचनां प्
विमानन मंत्री के. राममोहन नायडू का फाइल फोटो


नव दिल्ली, 06 अगस्तमासः (हि.स.)।

केंद्रीयनागरविमाननमन्त्री के. राममोहननायडूः गुरुवासरे उक्तवान् यत् एविएशनटर्बाइनफ्यूल् इत्यस्मिन् इथेनॉलद्रव्यस्य मिश्रणस्य कश्चिदपि प्रस्तावः नास्ति। सः एतदपि उक्तवान् यत् विमाननसुरक्षासम्बद्धां मिथ्यासूचनां प्रसारयितुं हवाईयात्रिकेषु निरर्थकचिन्ता जायते।

राममोहननायडूः गुरुवासरे उक्तवान् यत् विमानेन्धने इथेनॉलमिश्रणस्य योजनामिति यः दावा प्रचार्यते सः सर्वथा मिथ्या, अनुत्तरदायित्वपूर्णश्च अस्ति। तेन उक्तं यत् तादृशः कश्चिदपि प्रस्तावः नास्ति। नायडूः उक्तवान् यत् यात्रिकाणां सुरक्षा एव शासनस्य सर्वोच्चप्राथमिकता अस्ति। केन्द्रीयमन्त्री उक्तवान् यत् इथेनॉलः तथा सस्टेनेबल एविएशनफ्यूल् (एसएएफ) इति उभे सर्वथा पृथक् स्तः, तयोः परस्परं मिश्रणं कर्तुं न उचितम्।

सः पुनरपि उक्तवान् यत् एसएएफ अन्तरराष्ट्रीयस्तरे प्रमाणीकृतम् एविएशनफ्यूल् अस्ति, यत् अन्तरराष्ट्रीयनागरविमाननसङ्गठनेन (आईसीएओ) मान्यतां प्राप्तम्। एतत् विश्वस्य नानादेशेषु स्वीकृतम् अस्ति। एतत् कठोरपरीक्षणैः परीक्षितं भवति तथा च वैश्विकसुरक्षामानदण्डानां कठोरमानकानि पूर्णतया पूरयति।

केन्द्रीयमन्त्रिणः एषः प्रत्युत्तरः आमआदमीदलीयसंयोजकस्य अरविन्दकेजरीवालस्य तस्मै दावाय प्रदत्तः, यस्मिन् तेन उक्तं यत् शासनं विमानेन्धने इथेनॉलमिश्रणस्य योजनां प्रवर्तयितुम् इच्छति।

---------------

Hindusthan Samachar / Dheeraj Maithani