Enter your Email Address to subscribe to our newsletters

भोपालम्, ०६ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः उक्तवान् यत् मध्यप्रदेशः हरित-ऊर्जाक्षेत्रे अत्यन्तं तीव्रगत्या कार्यं करोति। सौर-ऊर्जायाः पवन-ऊर्जायाश्च उत्पादनार्थं प्रयत्नाः निरन्तरं वर्धन्ते। एतादृशस्य ऊर्जोत्पादनस्य व्यवस्था चतुर्विंशति-होरापर्यन्तं भविष्यति। अस्मिन् विषये कार्यं निरन्तरं प्रवर्तते तथा च मध्यप्रदेशेन अस्मिन् क्षेत्रे क्रियमाणानां कार्याणां विश्वव्यापिनी चर्चा भविष्यति।
एतद् मुख्यमन्त्री डॉ. मोहन-यादवेन गुरुवासरे नवदिल्ली इत्यत्र अन्ताराष्ट्रिय-नवकरणीय-ऊर्जा-सम्मेलनस्य अनन्तरं माध्यम-प्रतिनिधिभिः सह संवादे उक्तम्। तेन उक्तं यत् मध्यप्रदेशः हरित-ऊर्जाक्षेत्रे महत्त्वपूर्णं कार्यं करोति।
मध्यप्रदेशः अष्टभ्यः राज्येभ्यः ऊर्जां प्रददाति
मुख्यमन्त्री डॉ. मोहन-यादवः सामाजिक-माध्यमे एक्स इति मञ्चे प्रकाशिते सन्देशे उक्तवान् यत् मध्यप्रदेशः भारतीय-रेलविभागिन सह अष्टभ्यः राज्येभ्यः ऊर्जां प्रयच्छति।
मुख्यमन्त्री उक्तवान् यत् अग्रिमेषु कालेषु मध्यप्रदेशः स्वच्छ-ऊर्जा, ऊर्जा-सुरक्षा तथा सतत-विकासस्य क्षेत्रे देशस्य अग्रणी केन्द्रं भविष्यति। तेन उक्तं यत् गुरुवासरे नवदिल्ली इत्यत्र केन्द्रीयमन्त्रिणा प्रह्लाद-जोशिना सह सप्तमे अन्तर्राष्ट्रीय-नवकरणीय-ऊर्जा-सम्मेलने प्रदर्शिन्यां च सहभागित्वेन मध्यप्रदेशस्य हरित-ऊर्जा-प्रतिरूपम्, निवेशानुकूल-नीतयः तथा स्वच्छ-ऊर्जाक्षेत्रे ऐतिहासिकी प्रगतिः सर्वेभ्यः अवगताः कारिताः।
तेन उक्तं यत् गतयोः द्वयोः वर्षयोः राज्यसर्वकारेण नवकरणीय-ऊर्जा, पम्प्ड-हाइड्रो-ऊर्जा-सञ्चयनम् तथा बायोमास-नीतयः प्रवर्तिताः, येन निवेशस्य नवाचारस्य च नूतना दिशा प्रदत्ता। तेन उक्तं यत् आगर-शाजापुर-नीमच-सौर-परि-योजनायां प्रति-एककं २.१४ रूप्यकाणां न्यूनतमः सौर-शुल्कः अभिलेखरूपेण प्राप्तः। नवकरणीय-ऊर्जाक्षेत्रे एतादृशैः प्रयत्नैरेव मध्यप्रदेशेन भारतीय-रेलविभागेन सह अष्टभ्यः राज्येभ्यः हरित-ऊर्जायाः प्रदानं सम्भवं जातम्। एष: गौरवस्य विषयः अस्ति।
Hindusthan Samachar / Divya Ranjan