Enter your Email Address to subscribe to our newsletters

सुकमा, ०६ अगस्तमासः (हि.स.)। जनपद-पञ्चायत-संसाधन-केन्द्र-परिसरे अद्य गुरुवासरे कृषि-पशुसखीभ्यः चतुर्दिवसी-यस्य जैविक-कृषि-सह-प्रशिक्षण-कार्य-क्रमस्य शुभारम्भः अभवत्। अस्य प्रशिक्षणस्य मुख्योद्देश्यं सुदूर-ग्रामीण-प्रदेशेषु स्थायी-कृषेः आधुनिक-पशुपालन-प्रविधीनां च प्रसारं कर्तुम् अस्ति, येन प्राकृतिक-संसाधनानां संरक्षणं कुर्वन्तः कृषकाः आत्मनिर्भराः भवेयुः।
प्रशिक्षण-सत्रे भूमगादी-संस्थायाः विशेषज्ञः सुरेश-नागः प्रतिभागिभ्यः व्यावहारिकं तकनीकी-मार्गदर्शनं च प्रददाति। अस्मिन् मुख्यतया प्राकृतिक-कृषि-पद्धतिनां, गृहे एव जैविक-उर्वरकाणां कीटनाशकानां च निर्माण-विधिनां तथा पशुधन-प्रबन्धनस्य विविध-विषयाणां विषये विस्तृतया सूचना प्रदीयते, येन महिलाः स्वस्वक्षेत्राणि गत्वा अन्यान् कृषकान् अपि सुकरतया प्रशिक्षयितुं समर्थाः भवेयुः।
अस्मिन्नवसरे राज्य-महिला-आयोगस्य सदस्या दीपिका-सोरी सखीनाम् उत्साहवर्धनम् अकरोत्। तया जैविक-कृषिः स्वस्थ-समाजस्य पर्यावरण-संरक्षणस्य च कृते अत्यन्तम् आवश्यकेति उक्तम् तथा एषा कृषकाणाम् आयवृद्धेः सशक्तं माध्यमम् इति अपि प्रतिपादितम्। तया सर्वे प्रतिभागिनः आहूताः यत् एतत् ज्ञानं केवलं प्रशिक्षण-कार्यक्रमपर्यन्तं सीमितं न कुर्वन्तु, अपितु स्वस्वग्रामेषु जैविक-कृषिं जनान्दोलनरूपेण विकसितुं प्रयतन्ताम्।
Hindusthan Samachar / Divya Ranjan