उच्चतमन्यायालयविभागीयसमितेः अध्यक्षपदाय सिद्धार्थ मृदुलेन पूरितं नामांकनम्
नव दिल्ली, 06 अगस्तमासः (हि.स.)। वरिष्ठः अधिवक्ता मणिपुर उच्चन्यायालयस्य पूर्वमुख्यन्यायाधीशः सिद्धार्थ मृदुल गुरुवासरे सुप्रीम कोर्ट बार एसोसिएशन इत्यस्य अध्यक्षपदाय स्वनामाङ्कनपत्रम् उपस्थापितवान्। सुप्रीम कोर्ट बार एसोसिएशन इत्यस्य निर्वाचनम् १८
सुप्रीम कोर्ट बार एसोसिएशन


नव दिल्ली, 06 अगस्तमासः (हि.स.)। वरिष्ठः अधिवक्ता मणिपुर उच्चन्यायालयस्य पूर्वमुख्यन्यायाधीशः सिद्धार्थ मृदुल गुरुवासरे सुप्रीम कोर्ट बार एसोसिएशन इत्यस्य अध्यक्षपदाय स्वनामाङ्कनपत्रम् उपस्थापितवान्। सुप्रीम कोर्ट बार एसोसिएशन इत्यस्य निर्वाचनम् १८ अगस्तदिनाङ्के भविष्यति।

पूर्वमुख्यन्यायाधीशः सिद्धार्थ मृदुल मणिपुर उच्चन्यायालयस्य मुख्यन्यायाधीशपदे नियुक्तेः पूर्वं दिल्ली उच्चन्यायालयस्य न्यायाधीशः आसीत्। सः मणिपुर उच्चन्यायालयस्य मुख्यन्यायाधीशपदात् नवम्बर २०२४ मासे सेवानिवृत्तः अभवत्। ततः प्रभृति सः उच्चतमन्यायालये अधिवक्तारूपेण विधिव्यवसायं करोति।-----------------

Hindusthan Samachar / Dheeraj Maithani