Enter your Email Address to subscribe to our newsletters




भोपालम्/धारः, ०६ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य धार-जनपदस्य ऐति-हासिक्यां भोजशालायां गुरुवासरे पद्मभूषण-सम्मानेन सम्मानिता साध्वी ऋतंभरा आगत्य वैदिक-मन्त्रोच्चारणस्य मध्ये मातुः वाग्देव्याः दर्शनं पूजनं च कृतवती। केन्द्रीय-राज्यमन्त्रिणः सावित्री-ठाकुर-महोदयायाः उपस्थितौ सम्पन्ने अस्मिन् धार्मिककार्यक्रमे साध्वी ऋतंभरा अवदत् यत् भोजशालायाः सत्यं अग्निपरीक्षां तीर्त्वा प्रकाशमागतम् अस्ति तथा अग्रिमेषु कालेषु अत्र राज्ञः भोजस्य काले यद्वैभवम् आसीत् तत् पुनः प्रत्यागमिष्यति।
धारस्थे ऐतिहासिके भोजशाला-परिसरे साध्व्याः ऋतंभरायाः आगमने श्रद्धालवः समर्थकाश्च “जय श्रीराम” तथा “माता वाग्देवी की जय” इति घोषैः वातावरणं धर्ममयं चक्रुः। केन्द्रीय-राज्यमन्त्रिणा सावित्री-ठाकुर-महोदयया सह साध्वी ऋतंभरा सुरक्षाव्यवस्थायाः मध्ये मातुः वाग्देव्याः पूजामर्चनां कृत्वा देशस्य समाजस्य च सुख-समृद्धये प्रार्थनामकरोत्। दर्शनानन्तरं सा अवदत् यत् भगवत्याः कृपया लण्डन-नगरे संस्थापिता मातुः वाग्देव्याः मूलप्रतिमा शीघ्रमेव स्वमूलस्थाने प्रत्यागमिष्यति। भोजशालायाः संघर्षं हिन्दू-समाजस्य महान्तं विजयम् इति वर्णयन्ती सा अवदत् यत् अनेन काशी-मथुरा इत्यनयोः विषयेऽपि सत्यस्य विजयस्य मार्गः प्रशस्तो भविष्यति।
माध्यमैः सह सम्भाषमाणा साध्वी ऋतंभरा अवदत् यथा भक्तः प्रह्लादः अग्निपरीक्षायामपि निर्विकारः निर्गतः, तथैव भोजशालायाः इतिहासोऽपि अक्षुण्णः अवस्थितः। सा अवदत् यत् सनातनधर्मस्य शक्तिं कश्चिदपि न नाशयितुं शक्नोति। एषा सा एव भूमिरस्ति यत्र ज्ञानस्य, विज्ञानस्य, सङ्गीतस्य संस्कृतेश्च उत्कर्षः अभवत्। एतत्सह दिल्लीनगरे जन्तर-मन्तरस्थले अभवतां नवीन-प्रदर्शनानां विषये टिप्पणीं कुर्वती सा अवदत् यत् स्वाधिकारार्थं संघर्षं कुर्वतीभिरपि युवतीभिः मर्यादा पालनीया। आन्दोलनस्य नाम्ना अभद्र-अश्लील-भाषायाः प्रयोगः तस्य गरिमां न्यूनीकरोति, तादृशेषु तत्त्वेषु समुचिता कार्यवाही भवितव्या।
साध्व्याः ऋतंभरायाः भोजशाला-प्रवासं दृष्ट्वा स्थानीय-प्रशासनेन आरक्षकैश्च कठोराः सुरक्षाप्रबन्धाः कृताः। परिसरे दर्शनार्थं प्रातःकालादेव सामान्य-श्रद्धालूनां महान् सम्मर्द: समुपस्थित:। पूजनस्य सम्पन्नतायाः अनन्तरं सा समुपस्थितं जनसमूहं सम्बोध्य आहूतवती यत् भारतीय-सन्ततयः संस्काररूपेण गङ्गाजलेन सिञ्चिताः भवेयुः, येन धारस्य एषा पवित्रा भूमिः पुनरेकवारं समग्रस्य भारतस्य सांस्कृतिक-नेतृत्वं कर्तुं समर्था भवेत्।
Hindusthan Samachar / Divya Ranjan