हरिद्वारतः ३९ लक्षाधिकाः कांवडयात्रिणः गङ्गाजलं गृहीत्वा स्वस्वगन्तव्येषु प्रस्थिताः
हरिद्वारम्, ०६ अगस्तमास: (हि.स.)। श्रावणमासस्य कांवडमेलापकस्य अष्टमे दिने अपि हरिद्वारे शिवभक्तानां महान् सम्मर्द: समुपस्थित:। गुरुवासरे अष्टमे दिवसे ३९ लक्षं १५ सहस्राधिकाः कांवडयात्रिणः उत्तराखण्डस्य हरिद्वारतः पवित्रं गङ्गाजलं गृहीत्वा स्वस्वगन्
कांवड़ ले जाते शिव भक्त


हरिद्वारम्, ०६ अगस्तमास: (हि.स.)। श्रावणमासस्य कांवडमेलापकस्य अष्टमे दिने अपि हरिद्वारे शिवभक्तानां महान् सम्मर्द: समुपस्थित:। गुरुवासरे अष्टमे दिवसे ३९ लक्षं १५ सहस्राधिकाः कांवडयात्रिणः उत्तराखण्डस्य हरिद्वारतः पवित्रं गङ्गाजलं गृहीत्वा स्वस्वगन्तव्यं प्रति प्रस्थिताः।

मेलापक-नियन्त्रणकक्षे स्थापितात् आरक्षक-नियन्त्रणकक्षात् गुरुवासरसायं प्राप्तानां विवरणानाम् अनुसारेण अद्यावधि गङ्गाजलं गृहीत्वा प्रस्थितानां शिवभक्तानां समग्रसङ्ख्या द्विकोटिः १९ लक्षाः ७० सहस्रं च अतिक्रान्तवती। गुरुवासरे हर-की-पैडी-घट्टेन सह हरिद्वारस्य विभिन्नेषु घाटेषु दिवसभरं श्रद्धालूनां महान् सम्मर्द: आसीत्। बहुसंख्यकाः शिवभक्ताः गङ्गाजलं गृहीतवन्तः। दिवसभरं जातया अतिवृष्ट्या अपि शिवभक्तानां कांवड-यात्रिणामुत्साहः न्यूनो नाभवत्। श्रद्धालूनां निरन्तरं वर्धमानां सङ्ख्यां दृष्ट्वा कांवडमेलापकं सुरक्षितं सुव्यवस्थितं सुचारुं च कर्तुं पुलिस-प्रशासनयोः तथा अन्येषां विभागानामधिकारीणः कर्मचारी-णश्च सज्जतया नियुक्ताः सन्ति।

वृष्टेः मध्ये गुरुवासरे जनपदाधिकारी मयूर-दीक्षितः तथा वरिष्ठ-आरक्षक-अधीक्षकः नवनीत-सिंहः हरिद्वारतः नारसन-सीमापर्यन्तं कांवडयात्रामार्गस्य निरीक्षणं कृतवन्तौ तथा शिवभक्त-कांवडयात्रिणां सुविधायै सुरक्षायै च आवश्यकान् निर्देशान् प्रदत्तवन्तौ। जिला-प्रशासनेन सर्वेभ्यः शिवभक्तेभ्यः निर्धारित-यात्रामार्गानां पालनं, आरक्षक-प्रशासनाभ्यां निर्गतानां निर्देशानाम-नुपालनं, तथा स्वच्छायाः सुरक्षितायाः सुव्यवस्थितायाश्च कांवडयात्रायाः सञ्चा-लने सहयोगं कर्तुम् आह्वानं कृतम्।

Hindusthan Samachar / Divya Ranjan