Enter your Email Address to subscribe to our newsletters

14 अगस्ततः 28 नवंबरं यावत् चलिष्यति विशिष्टं, उत्तर भारततः दक्षिण-पूर्व भारतस्य प्रमुखानि धार्मिकानि पर्यटन स्थलानि यावत् सरला भविष्यति यात्रा
प्रयागराजः, 06 अगस्तमासः (हि.स.)।
उत्तरमध्यरेलमार्गेण यात्रिकाणां सुविधां दृष्ट्वा प्रयागराजविशाखापट्टनमनगरयोः मध्ये साप्ताहिकविशेषरेलयानस्य सञ्चालनस्य निर्णयः कृतः। रेलयानसंख्या ०४१५९/०४१६० प्रयागराज–विशाखापट्टनम–प्रयागराज विशेषरेलयानम् १४ अगस्ततः २८ नवम्बर २०२६ पर्यन्तं उभयदिशि षोडशषोडशवारं सञ्चरिष्यति। अनेन विशेषरेलयानेन उत्तरप्रदेशस्य आन्ध्रप्रदेशस्य च मध्ये प्रत्यक्षरेलसम्बन्धः अधिकं सुदृढो भविष्यति। एतां सूचनां गुरुवासरे उत्तरमध्यरेलमार्गस्य जनसम्पर्काधिकारी अमितमालवीयः अददात्।
सः अवदत् यत् एषः विशेषरेलयानः केवलं द्वयोः नगरयोः संयोजनस्य साधनं नास्ति, अपितु श्रद्धालूनां प्रकृतिप्रेमिणां पर्यटकानां च कृते देशस्य अनेकेषां प्रसिद्धधार्मिकऐतिहासिकप्राकृतिकपर्यटनस्थलानां सुगमप्रवेशस्य अवसरमपि प्रदास्यति। अयं रेलमार्गः श्रद्धायाः संस्कृतेः प्राकृतिकसौन्दर्यस्य च अद्वितीयः संगमः अस्ति।
सः अवदत् यत् प्रयागराजतः यात्रां प्रारभमाणाः यात्रिकाः संगमं प्रयागराजदुर्गम् आनन्दभवनं च द्रष्टुं शक्नुवन्ति। तथा मानिकपुरसतना इत्येतयोः माध्यमेन चित्रकूटं मैहरस्थितं मातुः शारदादेव्याः मन्दिरं च गन्तुं शक्यते। कटनीस्थानकात् बांधवगढ़राष्ट्रीयोद्यानं, अनूपपुरपेंड्रारोडस्थानकाभ्यां अमरकण्टकं, बिलासपुरतः अचानकमारव्याघ्रसंरक्षणक्षेत्रं तथा संबलपुरतः हीराकुण्डबन्धः समलेश्वरीदेव्याः मन्दिरं च सुगमतया प्राप्यते। एतदतिरिक्तं रायगडस्य प्राकृतिकोपत्यकाः, आरकूघाटी, बोरागुहाः, विशाखापट्टनमस्य ऋषिकोण्डातीरतटः, सबमरीनसङ्ग्रहालयः तथा सिम्हाचलममन्दिरम् अपि अस्य यात्रायाः प्रमुखाकर्षणानि भविष्यन्ति।
एलएचबीयानकोचैः सह भविष्यन्ति कुलम् २२ कोचाः
अमितमालवीयः अवदत् यत् अस्मिन् विशेषरेलयाने आधुनिकाः एलएचबीयानकोचाः योजिताः भविष्यन्ति। रेलयाने कुलम् २२ कोचाः भविष्यन्ति, येषु वातानुकूलितद्वितीयश्रेणी, वातानुकूलिततृतीयश्रेणी, वातानुकूलिततृतीयइकोनॉमीश्रेणी, शयनयानश्रेणी, सामान्यश्रेणी तथा एसएलआरकोचाः समाविष्टाः भविष्यन्ति। सः अवदत् यत् रेलयानसंख्या ०४१५९ प्रत्येकं शुक्रवासरे १४ अगस्ततः २७ नवम्बर २०२६ पर्यन्तं प्रयागराजतः प्रातः १०:१५ वादने प्रस्थित्य परदिने मध्याह्ने १:३० वादने विशाखापट्टनमं प्राप्स्यति। तथैव रेलयानसंख्या ०४१६० प्रत्येकं शनिवासरे १५ अगस्ततः २८ नवम्बर २०२६ पर्यन्तं विशाखापट्टनमतः अपराह्णे ३:४० वादने प्रस्थित्य परदिने सायं ५:३० वादने प्रयागराजं प्राप्स्यति।
जनसम्पर्काधिकारी अमितमालवीयः अवदत् यत् उभयदिशि अयं विशेषरेलयानः मानिकपुर, सतना, कटनी, शहडोल, अनूपपुर, पेंड्रारोड, बिलासपुर, रायगढ़, झारसुगुडारोड, संबलपुरजङ्क्शन, टिटिलागढ़, रायगड़ा, पार्वतीपुरम्, बोब्बिली तथा विजयनगरमजङ्क्शन इत्यादिषु प्रमुखरेलस्थानकेषु विरमिष्यति। सः यात्रिकान् प्रति अपीलम् अकरोत् यत् यात्रायाः योजना कुर्वन्तः रेलयानस्य समयसारिणीं आरक्षणसम्बद्धसूचनां च भारतीयरेलमार्गस्य अधिकृतमाध्यमेभ्यः प्राप्त्वा समये एव स्वस्थानम् सुनिश्चितं कुर्वन्तु।
---------------
Hindusthan Samachar / Dheeraj Maithani