Enter your Email Address to subscribe to our newsletters

जयपुरम्, ०६ अगस्तमासः (हि.स.)। राष्ट्रीय-स्वयंसेवक-संघस्य शताब्दीवर्षोपलक्ष्ये नीमकाथाना-नगरे युवा-संसदः आयोजित:। कार्यक्रमस्य शुभारम्भः खण्ड-संघचालकेन गजानन्देन तथा प्रान्त-व्यवस्था-प्रमुखेन कैलाश-गुप्तेन दीपप्रज्वलनेन कृतः।
युवा-संसदि ३५ प्रतिभागिनः सत्तापक्षेण विपक्षेण लोकसभाध्यक्षेण च सह विविधाः संसदीय-भूमिकाः सम्यग्रूपेण निर्वुढवन्तः। अविनाशः प्रधानमन्त्रीपदम्, पूरणः लोकसभाध्यक्षस्य पदम्, चन्दन-प्रकाशः प्रतिपक्षनेतुः भूमिकां च निर्वुढवान्। कार्यक्रमस्य सञ्चालनं सारिका-यादवेन कृतम्।
प्रश्नकाले प्रतिभागिभिः प्रश्नपत्र-प्रस्रवणम्, बेरोजगारी, मार्ग-दुर्घटनाः, वायु-प्रदूषणम्, अग्निवीर-योजना, वर्धमाना शिक्षाव्ययः, महिला-सशक्तीकरणम् तथा कृषक-सम्बद्धाः विषयाः इत्यादिषु प्रश्नाः उत्थापिताः। सत्तापक्षस्य पक्षतः प्रधानमन्त्री तथा विविध-केन्द्रीय-मन्त्रिणां भूमिकां निर्वहद्भिः प्रतिभागिभिः विपक्षस्य प्रश्नानां उत्तराणि प्रस्तुतानि। कार्यक्रमे नीमकाथाना-नगरस्य प्रायः २०० प्रबुद्ध-नागरिकाः उपस्थिताः आसन्।
युवा-संसदः सम्पन्ना अनन्तरं राष्ट्रीय-स्वयंसेवक-संघस्य विभाग-प्रचारकः चैतन्य-प्रकाशः “विचारः सनातनस्य” इति विषये बौद्धिक-व्याख्यानम् अयच्छत्। तेन उक्तं यत् प्रत्येकं युवा स्वयमेव एतत् प्रश्नत्रयं चिन्तयेत्— “वयं के आस्म? वयं किम् स्मः? अस्माभिः किं भवितव्यम्?” एतदेव आत्मचिन्तनं राष्ट्रनिर्माणस्य आधारः अस्ति। तेन चरित्रम्, अनुशासनम्, सेवा तथा राष्ट्रभक्तिः युवा-जीवनस्य आधाराः इति प्रतिपाद्य विकसित-भारत-निर्माणे सक्रिय-सहभागितायाः आह्वानं कृतम्।
कार्यक्रमस्य समापने युवभिः प्रबुद्ध-नागरिकैश्च वृक्षारोपणं कृत्वा पर्यावरण-संरक्षणस्य सन्देशः प्रदत्तः तथा राष्ट्रस्य, समाजस्य, सनातन-संस्कृतेः च संरक्षण-संवर्धनयोः संकल्पः गृहीतः।
हिन्दुस्थान समाचार / Divya Ranjan