भारतं श्रीलंका च विद्युत क्षेत्रे सहयोगाय दृढीकर्तुं वार्ता
(अवधेयम्- शीर्षके संशोधनं विधाय अनन्तरं पुनः निर्गतम् ) नवदिल्ली, 07 अगस्तमासः (हि.स.)। भारतः श्रीलङ्का च शुक्रवासरे आयोजितायां उच्चस्तरीयोपवेशने विद्युत्क्षेत्रे द्विपक्षीयसहकार्यस्य समीक्षाम् अकुरुताम्। भारतीयप्रतिनिधिमण्डलस्य नेतृत्वं केन्
भारत और श्रीलंका के विद्युत मंत्रियों की बैठक का जारी फोटो


भारत और श्रीलंका के विद्युत मंत्रियों की बैठक का जारी फोटो


(अवधेयम्- शीर्षके संशोधनं विधाय अनन्तरं पुनः निर्गतम् )

नवदिल्ली, 07 अगस्तमासः (हि.स.)।

भारतः श्रीलङ्का च शुक्रवासरे आयोजितायां उच्चस्तरीयोपवेशने विद्युत्क्षेत्रे द्विपक्षीयसहकार्यस्य समीक्षाम् अकुरुताम्। भारतीयप्रतिनिधिमण्डलस्य नेतृत्वं केन्द्रीयऊर्जामन्त्री मनोहरलालः अकरोत्, श्रीलङ्कीयप्रतिनिधिमण्डलस्य नेतृत्वं तु बन्दरगाहनागरविमानयनऊर्जामन्त्री अनुराकरुणातिलके अकरोत्।

विद्युन्मन्त्रालयेन प्रकाशिते वक्तव्ये उक्तं यत् मन्त्रिणौ प्रस्तावितस्य भारतश्रीलङ्काउच्चदाबप्रत्यक्षधारासम्पर्कपरियोजनायाः तथा सम्पूरसौरविद्युत्परियोजनायाः सहितं प्रचलमानानां द्विपक्षीयपहलानां प्रगतिं समीक्षितवन्तौ। तदतिरिक्तं ताभ्यां सीमापारविद्युत्वाणिज्ये, नवीकरणीयऊर्जाक्षेत्रे, विद्युत्पारेषणाधारसंरचनायाम्, क्षमताविकासे च सहकार्यस्य गहनतायाः अवसराः अपि चर्चिताः। एतेषां प्रयत्नानां उद्देश्यं क्षेत्रीयऊर्जासुरक्षायाः संवर्धनं स्वच्छऊर्जायाः प्रति संक्रमणस्य समर्थनं च अस्ति।

मन्त्रालयेन सूचितं यत् भारतीयपक्षेण सार्वजनिकनिजीभागीदारीप्रतिमानस्य अन्तर्गतं शुल्काधारितस्पर्धात्मकनिविदाव्यवस्थायाः माध्यमेन विद्युत्पारेषणव्यवस्थाविकासे स्वानुभवः अपि सहकारीकृतः। उभयपक्षाभ्यां विद्यमानद्विपक्षीयतन्त्रेषु सम्पन्नकार्याणां प्रगतिः अपि समीक्षिता तथा च सततविकासाय क्षेत्रीयऊर्जासुरक्षायै च विद्युत्क्षेत्रे सहकार्यं अधिकं सुदृढीकर्तुं स्वप्रतिबद्धता पुनः प्रतिपादिता।

विद्युन्मन्त्रालयस्य अनुसारं मनोहरलालेन भारतश्रीलङ्कयोः दीर्घकालीनऊर्जासहभागितायाः प्रति भारतस्य दृढप्रतिबद्धता पुनरुक्ता। अनुराकरुणातिलके भारतस्य निरन्तरसमर्थनस्य प्रशंसां कृत्वा द्विपक्षीयऊर्जासहकार्यस्य अधिकविस्ताराय श्रीलङ्कायाः प्रतिबद्धतां व्यक्तवान्।

मन्त्रालयेन उक्तं यत् अस्मिन् उपवेशने विद्युत्मन्त्रालयस्य सचिवः पङ्कजअग्रवालः भारतसर्वकारस्य अन्ये वरिष्ठाधिकारिणश्च उपस्थिताः आसन्। श्रीलङ्कीयप्रतिनिधिमण्डले भारतस्थिता श्रीलङ्कायाः उच्चायुक्ता महिशिनीकोलोन तथा अन्ये वरिष्ठाधिकारिणः अपि समाविष्टाः आसन्।

-----------

Hindusthan Samachar / Dheeraj Maithani