Enter your Email Address to subscribe to our newsletters

देशे फैशन्, मनोरञ्जनस्य तथा सृजनात्मकप्रतिभानां कृते नूतनं मञ्चं प्रदातुं दिशि हैदराबादनगरस्य मीडिया कम्पनी ‘ग्रेडिएण्ट् इन्फोटेन्मेण्ट्’ इत्यनया ‘मिस् शी इण्डिया २०२७’ इत्यस्य भव्यायोजनस्य प्रारम्भः कृतः। प्रायः षण्मासपर्यन्तं चलिष्यमाणे अस्मिन् कार्यक्रमे देशस्य त्रयोविंशतिनगरेभ्यः पञ्चदशसहस्राधिकाः प्रतिभागिनः सम्मिलिताः भविष्यन्तीति अपेक्षा अस्ति।
मुम्बईनगरस्य होटल् सहारा स्टार इत्यत्र आयोजितेन कार्यक्रमेन ‘ग्रेडिएण्ट् एशियन् फैशन टूर’ इत्यस्य पञ्चविंशतितमस्य सत्रस्यापि प्रारम्भः अभवत्। अस्मिन् अवसरे प्रतिभागिभिः रैम्प् इत्यत्र स्वीयस्य आत्मविश्वासस्य फैशनशैल्याश्च प्रदर्शनं कृतम्। आयोजनस्य भव्यसमापनकार्यक्रमः फरवरीमासे हैदराबादे प्रस्तावितः अस्ति, यत्र विजेतुः चयनं भविष्यति।
अस्मिन् अवसरे ग्रेडिएण्ट् इन्फोटेन्मेण्ट् इत्यस्य अध्यक्षः प्रबन्धनिदेशकश्च डॉ. विमलमाथुरः उक्तवान् यत् ‘मिस् शी इण्डिया २०२७’ केवलं प्रतियोगिता वा रैम्प्-प्रदर्शनं वा न, अपितु भारतस्य सृजनात्मक-अर्थव्यवस्थायाः तथा महिलाप्रतिभानां प्रोत्साहनाय आरब्धा महत्त्वपूर्णा पहलः अस्ति। सः उक्तवान् यत् त्रयोविंशतिनगरेषु सहस्रशः प्रतिभागिनां माध्यमेन कम्पनी देशस्य सृजनात्मकप्रतिभाः वैश्विकमञ्चेन सह संयोजयितुम् इच्छति।
तस्य मतानुसारम् आगामिकाले चयनिताभ्यः प्रतिभाभ्यः मिलान् इत्यादिषु अन्तर्राष्ट्रीयेषु फैशनमञ्चेष्वपि अवसराः प्राप्तुं शक्नुवन्ति। आयोजने बॉलीवुड् तथा फैशनजगतः बह्वीनां प्रसिद्धानां व्यक्तीनां सम्मिलितत्वस्यापि सम्भावना अस्ति। प्रतिभागिभ्यः मार्गदर्शनं तथा अन्तर्राष्ट्रीयस्तरस्य अनुभवप्राप्त्यवसरं प्रदातुं सज्जता अपि क्रियते।
‘मिस् शी इण्डिया २०२७’ इत्यस्य विशेषता एषा अस्ति यत् प्रतियोगिता मुकुटप्राप्त्या सह समाप्ता न भविष्यति, अपितु विजेतृभ्यः तदनन्तरं व्यावसायिकजीवनस्य नूतनाः मार्गाः उद्घाटिताः भविष्यन्ति। चयनितप्रतिभाभ्यः बॉलीवुड्, ओटीटी, राष्ट्रिय-अन्तर्राष्ट्रीय-ब्राण्ड्-प्रचारकार्येषु तथा विदेशेषु आयोज्यमानेषु फैशनप्रदर्शनेषु कार्यस्य अवसराः प्रदातुं योजना अस्ति।
कम्पन्याः अनुसारम् एषा पहलः महिलाउद्यमशीलतायाः तथा प्रतिभानां कृते सुदृढं मञ्चं प्रदातुं उद्देशेन क्रियते। ग्रेडिएण्ट् इन्फोटेन्मेण्ट् इत्येषा कम्पनी निर्माणकार्ये, मनोरञ्जने, विज्ञापने, ब्राण्ड्-निर्माणे, जनसम्पर्के तथा चलचित्रसामग्रीनिर्माणस्य क्षेत्रेषु सक्रियतया कार्यं करोति।
कम्पन्या चलचित्राणां दूरदर्शनपरियोजनानां च कृते वीएफएक्स्, डबिङ्ग् तथा सम्पादनसेवाः अपि प्रदीयन्ते। कम्पनीया सृजनात्मकक्षेत्रस्य तथा ऑरेंज् इकोनॉमी इत्यस्य प्रोत्साहनाय अद्यतनकाले पञ्चसहस्रकोटिरूप्यकाणां निवेशस्य घोषणापि कृता अस्ति।
Hindusthan Samachar / Dheeraj Maithani