Enter your Email Address to subscribe to our newsletters

नवदिल्ली/अंकारा, 14 सितंबरमासः (हि.स.)।दक्षिणाफ्रिकादेशस्य राष्ट्रपतिः सिरिलरामफोसा ब्रिक्स्-देशेभ्यः कृत्रिमबुद्धेः स्वतन्त्रवैज्ञानिकमूल्याङ्कनस्य पर्यवेक्षणस्य च कृते अन्ता राष्ट्रियतन्त्रस्य स्थापनायै आह्वानं कृतवान्। सः चेतावनीम् अददात् यत् कृत्रिमबुद्धेः प्रौद्योगिकसामर्थ्यं मनुष्याणां तस्य अवगमनस्य, पर्यवेक्षणस्य नियन्त्रणस्य च क्षमताम् अतिक्रमितुं न अर्हति।
तुर्कीदेशस्य सर्वकारीयवार्तासंस्था अनाडोलू तथा स्थानीयमाध्यमानाम् अनुसारं नवदेहल्यां ब्रिक्स्-शिखरसम्मेलनं सम्बोधयन् रामफोसा अवदत् यत् कृत्रिमबुद्धिः उत्पादकता-मानवप्रगत्योः नूतनयुगस्य प्रारम्भं कर्तुं शक्नोति। तथापि सः द्रुतगत्या शक्तिशालिनां जायमानानां कृत्रिमबुद्धिप्रणालीनां सम्बद्धान् सम्भावितजोखिमान् प्रति अपि चिन्तां प्रकटितवान्।
रामफोसा अवदत् यत् उत्तरदायित्वेन प्रभावीप्रकारेण च प्रयुज्यमाना कृत्रिमबुद्धिः असमानतां, दारिद्र्यं न्यूनविकासं च न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति। अपि च, एषा चिकित्सायाः, शिक्षायाः, वैज्ञानिकानुसन्धानस्य कृषिउत्पादकत्वस्य च क्षेत्रेषु महत्त्वपूर्णं परिवर्तनं कर्तुं शक्नोति।
किन्तु सः उन्नतकृत्रिमबुद्धिप्रणालीभिः सम्बद्धानां बहूनां सम्भावितसंकटानाम् अपि उल्लेखं कृतवान्। एतेषु उन्नत-साइबर्-सञ्चालनानि, जैविकायुधानां विकासे सहायता, स्वायत्तक्रिया, हेरफेरः, बृहद्प्रमाणेन पर्यवेक्षणं रोजगारस्य च प्रभावः अन्तर्भवन्ति। सः अवदत् यत् अस्माभिः न तु कृत्रिमबुद्धेः भयभीतैः भवितव्यं, न च तां लापरवाहीपूर्वकं स्वीकरणीयम्। अस्माकं दायित्वम् अस्ति यत् मानवीयशासनं कृत्रिमबुद्धेः इव द्रुतगत्या अग्रे वर्धते इति सुनिश्चितं कुर्याम।
दक्षिणाफ्रिकादेशस्य राष्ट्रपतिः कृत्रिमबुद्धिकम्पनीनां स्वतन्त्रबाह्यपर्यवेक्षणस्य आवश्यकतायै बलं दत्त्वा एन्थ्रोपिक्-संस्थायाः मुख्यकार्यकारी-अधिकारी डारियो अमोदेई इत्यस्य विचाराणां समर्थनं कृतवान्। सः अवदत् यत् कृत्रिमबुद्धिकम्पन्यः औपचारिकबाह्यपरीक्षणस्य, स्वतन्त्रलेखापरीक्षणस्य, सर्वकारीयपर्यवेक्षणस्य च परिधौ भवितव्याः।
रामफोसा विमाननस्य, औषधनिर्माणस्य, परमाणुशक्तेः वित्तीयक्षेत्रस्य च उदाहरणं दत्त्वा अवदत् यत् येषां उद्योगानां मानवसुरक्षायाः कल्याणस्य च उपरि महत् प्रभावः भवति, तत्र नियामकीयपर्यवेक्षणं पूर्वमेव सामान्यव्यवस्थायाः अङ्गम् अस्ति। सः प्रस्तावितवान् यत् ब्रिक्स्-देशैः कृत्रिमबुद्धेः स्वतन्त्रवैज्ञानिकमूल्याङ्कनाय अन्तर्राष्ट्रीयतन्त्रं निर्मातव्यम्। तस्य मते, अस्यां व्यवस्थायां मानवीयनियन्त्रणस्य स्पष्टाः सिद्धान्ताः गम्भीर-कृत्रिमबुद्धिघटनानां अनिवार्यप्रतिवेदनं च अन्तर्भवितव्यम्।
सः विकासशीलदेशेषु सार्वभौम-कृत्रिमबुद्धिक्षमतानां सुदृढीकरणाय निवेशं वर्धयितुं तथा कृत्रिमबुद्धेः क्षमता वर्धमाना भवति चेत् सुरक्षोपायान् अपि सुदृढान् कर्तुं आवश्यकता अस्ति इति प्रतिपादितवान्।
रामफोसा ब्रिक्स्-समूहाय कृत्रिमबुद्धि-पारिस्थितिकीतन्त्रस्य स्थापनार्थं चीनीय-राष्ट्रपतेः शी जिनपिङ्गस्य प्रस्तावस्य अपि स्वागतं कृतवान् तथा अवदत् यत् दक्षिणाफ्रिका अस्याः पहलस्य समर्थनं करोति।
----------------
Hindusthan Samachar / Dheeraj Maithani