मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः त्रिदिवसीययात्रायै भूटानं प्राप्तवान्
नवदिल्ली, १४ सेप्टेम्बरमासः (हि.स.)। मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः त्रि-दिवसीययात्रायै सोमवासरे भूटानं प्राप्तवान्। तस्य यात्रा १४ तः १६ सेप्टेम्बरपर्यन्तं भविष्यति। अस्यां यात्रायां भारतस्य भूटानस्य च निर्वाचनायोगयोः मध्ये सहयोगवर्धनस्य तथा न
मुख्य चुनाव आयुक्त ज्ञानेश कुमार। (फाइल फोटो)।


नवदिल्ली, १४ सेप्टेम्बरमासः (हि.स.)। मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः त्रि-दिवसीययात्रायै सोमवासरे भूटानं प्राप्तवान्। तस्य यात्रा १४ तः १६ सेप्टेम्बरपर्यन्तं भविष्यति। अस्यां यात्रायां भारतस्य भूटानस्य च निर्वाचनायोगयोः मध्ये सहयोगवर्धनस्य तथा निर्वाचन-प्रक्रियासम्बद्धानां विविधविषयाणां विषये चर्चां भविष्यति।

निर्वाचनायोगस्य अनुसारं ज्ञानेशकुमारः सोमवासरे थिम्फूनगरे भूटानस्य राजानं मिलिष्यति। यात्रायाः अवधौ १५ सेप्टेम्बरे पारोनगरे स्थिते जिग्मेसिङ्ग्येवाङ्चुक-विधिविद्यालये आयोजिते भूटानस्य राष्ट्रियमतदातृदिवससमारोहे सः मुख्यातिथिरूपेण सम्मिलिष्यति। सः १६ सेप्टेम्बरे भूटानस्य प्रधानमन्त्री शेरिङ्ग-टोब्गे इत्यनेन सह मिलिष्यति। तदतिरिक्तं सः भूटानस्य वरिष्ठनागरिकसेवकै: सह अपि संवादं करिष्यति।

निर्वाचनायोगेन उक्तं यत् इयं यात्रा उभयोः देशयोः निर्वाचनायोगयोः मध्ये दीर्घकालात् प्रचलितं संस्थागतसहयोगं अधिकं सुदृढं कर्तुं सहायिका भविष्यति।

Hindusthan Samachar / Divya Ranjan