ईडी-पत्रिकायै ‘प्रवर्तनसन्देश’-पत्रिकायै प्राप्तः राजभाषाकीर्तिपुरस्कारः
मुम्बई, १४ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्रालयस्य राजभाषाविभागेन प्रवर्तननिदेशालयस्य (ईडी) हिन्दी-गृहपत्रिका ‘प्रवर्तनसन्देश’ इत्यस्यै २०२५-२६ तमस्य वर्षस्य प्रतिष्ठितः ‘राजभाषाकीर्तिपुरस्कारः’ (‘क’ क्षेत्रे द्वितीयपुरस्कारः) प्रदत्तः। म
मुंबई में आयोजित छठे अखिल भारतीय राजभाषा सम्मेलन के दौरान केंद्रीय गृह राज्य मंत्री बांदी संजय कुमार और नित्यानंद राय से 'राजभाषा कीर्ति पुरस्कार' ग्रहण करने के दौरान प्रवर्तन निदेशालय (ईडी) के अधिकारी।


मुम्बई, १४ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्रालयस्य राजभाषाविभागेन प्रवर्तननिदेशालयस्य (ईडी) हिन्दी-गृहपत्रिका ‘प्रवर्तनसन्देश’ इत्यस्यै २०२५-२६ तमस्य वर्षस्य प्रतिष्ठितः ‘राजभाषाकीर्तिपुरस्कारः’ (‘क’ क्षेत्रे द्वितीयपुरस्कारः) प्रदत्तः।

मुम्बय्यां आयोजितस्य ‘हिन्दीदिवस-२०२६’ इत्यस्य षष्ठस्य अखिलभारतीय-राजभाषासम्मेलनस्य च समये केन्द्रीय-गृहराज्यमन्त्रिभ्यां बी. सञ्जयकुमार-महोदयेन नित्यानन्दराय-महोदयेन च अयं पुरस्कारः प्रदत्तः। अयं कार्यक्रमः केन्द्रीयगृहमन्त्रिणः सहकारितामन्त्रिणश्च अमितशाहस्य अध्यक्षतायां सम्पन्नः।

ईडी-अनुसारं ‘प्रवर्तनसन्देशः’ निदेशालयस्य आन्तरिकी हिन्दीपत्रिका अस्ति। अस्याः माध्यमेन निदेशालयस्य कार्यक्षेत्रसम्बद्धाः जटिलाः विधिकाः, वित्तीयाः अन्वेषणसम्बद्धाः च तान्त्रिकविषयाः तथा राजभाषाहिन्दी-सम्बद्धाः गतिविधयः सरलया, सहजया प्रभावीभाषया च प्रस्तुताः क्रियन्ते। पत्रिकायाः प्रमुखम् उद्देश्यं निदेशालयस्य बहु-आयामिनां कार्याणां हिन्दीभाषया सामान्यजनानाम् अधिकारिणां च समक्षं प्रस्तुतीकरणेन सह शासकीयकार्येषु राजभाषायाः प्रगतिशील-प्रयोगं सुदृढं कर्तुम् अस्ति।

२०२५-२६ तमे वर्षे प्रकाशितस्य पत्रिकायाः नवमाङ्कस्य मुख्यविषयः ‘आतङ्कवित्त-पोषणस्य विरुद्धम् ईडी-संस्थायाः अभियानम्’ इति आसीत्। अस्मिन् आतङ्कवित्तपोषणस्य विरुद्धं संस्थया कृतानां कार्यवाहीणां, वित्तीयापराधानां तथा देशस्य आर्थिक-राष्ट्रियसुरक्षाभ्यां सम्बद्धानां संवेदनशील-पक्षाणां च विस्तरेण प्रस्तुतीकरणं कृतम् आसीत्। दशमाङ्कस्य केन्द्रीयविषयः ‘जनहितात् देशहितपर्यन्तम् : ईडी-संस्थायाः पीडितकेन्द्रिताः कार्यवाहीः सहायताश्च’ इति निर्धारितः आसीत्। अस्मिन् वित्तीयधोखाधडीना पीडितेभ्यः राहतं प्रदातुं, अपराधजनितस्य धनस्य अन्वेषणं, सम्पत्तीनां निरीक्षणं तथा सम्पत्तीनां अन्तिमरूपेण प्रत्यर्पणं सुनिश्चितं कर्तुं ईडी-संस्थायाः न्यायकेन्द्रितकार्यशैली प्रमुखतया रेखाङ्किता।

उल्लेखनीयं यत् ईडी-संस्थया राजभाषाहिन्दीं स्वस्य संस्थागतकार्य-संस्कृतेः अभिन्नम् अङ्गं कर्तुं निरन्तरम् अभिनवाः प्रयासाः कृताः सन्ति। एतत्पूर्वं २०२४ तमे वर्षे अपि निदेशालयेन गृहमन्त्रालयेन कृत्रिमबुद्धिमत्ता (एआई) इति विषये आयोजितायां अखिलभारतीय-हिन्दी-लघुचलच्चित्रनिर्माणप्रतियोगितायां तृतीयपुरस्कारः प्राप्तः आसीत्।

Hindusthan Samachar / Divya Ranjan