अरिजित्-श्रेयायोः स्वरयोः गुञ्जितं ‘जय जय राम’, ‘रामायणस्य’ प्रथमं गीतं प्रकाशितम्
रणबीरकपूरः साईपल्लवी च अभिनीतायाः बहुप्रतीक्षितायाः ‘रामायण’ इति चलचित्रस्य प्रथमं गीतं ‘जय जय राम’ गणेशचतुर्थ्याः शुभावसरे १४ सितम्बर् दिनाङ्के प्रकाशितम्। चलचित्रस्य पूर्वप्रकाशनचित्रम् अस्याः पूर्वं जुलैमासे ब्रह्ममुहूर्ते प्रकाशितम् आसीत्। गीतस
रामायण पोस्टर - फोटो सोर्स एक्स


रणबीरकपूरः साईपल्लवी च अभिनीतायाः बहुप्रतीक्षितायाः ‘रामायण’ इति चलचित्रस्य प्रथमं गीतं ‘जय जय राम’ गणेशचतुर्थ्याः शुभावसरे १४ सितम्बर् दिनाङ्के प्रकाशितम्। चलचित्रस्य पूर्वप्रकाशनचित्रम् अस्याः पूर्वं जुलैमासे ब्रह्ममुहूर्ते प्रकाशितम् आसीत्। गीतस्य दृश्यचित्रे रणबीरकपूरः भगवान् रामस्य तथा साईपल्लवी माता सीतायाः रूपे दृश्येते। दृश्यचित्रे उभयोः स्वयंवरात् आरभ्य वनवासपर्यन्तस्य यात्रायाः झलकी प्रदर्शिता अस्ति। गीतं टी-सीरीज़् इत्यस्य यूट्यूब्-प्रसारणमाध्यमस्य वाहिन्यां प्रकाशितम् अस्ति।

‘जय जय राम’ इति गीतं अरिजित्सिंहेन श्रेयाघोषालेन च स्वरं प्रदत्तम् अस्ति, यदा अस्य सङ्गीतं ए. आर. रहमानेन रचितम् अस्ति। गीतस्य पद्यानि डॉ. कुमारविश्वासेन लिखितानि सन्ति। भक्तिभावेन आध्यात्मिकभावेन च परिपूर्णम् इदं गीतं चलचित्रस्य कथायाः तस्य पौराणिकविश्वस्य च झलकं प्रदर्शयति। गीते रणबीरकपूरस्य साईपल्लव्याश्च रामसीतारूपेण प्रथमवारं विस्तृतरूपेण दर्शनस्य अवसरः प्राप्यते।

नितेशतिवारिणः निर्देशनं प्राप्यमाणायां ‘रामायण’ इति चलचित्रे यशः, रविदुबे, अरुणगोविलः, लारादत्ता, रकुलप्रीतसिंहः इत्यादयः बहवः कलाकाराः महत्त्वपूर्णासु भूमिकासु दृश्यन्ते। चलचित्रं बृहद्-स्तरेण निर्मीयते तथा च तत् द्वयोः भागयोः रूपेण प्रस्तुतं कर्तुं योजना अस्ति। ‘रामायण’ इत्यस्य प्रथमः भागः दीपावल्याः २०२६ तमस्य वर्षस्य अवधौ चलचित्रगृहेषु प्रकाशितः भविष्यति।

Hindusthan Samachar / Dheeraj Maithani