कारागारेषु सुरक्षया सह बन्दिनां मानसिकस्वास्थ्यस्य सुधारस्य पुनर्वासस्य च विशेषध्यानं दीयते - दारासिंहचौहानः
लखनऊ, १४ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशसर्वकारस्य कारागारमन्त्री दारासिंहचौहानः सोमवासरे लखनऊस्थिते कारागारमुख्यालये आयोजिते एक-दिवसीये कार्यक्रमे मुख्यातिथिरूपेण सहभागितां कृतवान्। कार्यक्रमे प्रदेशस्य सर्वेभ्यः ७५ कारागारेभ्यः कारागारा-धीक्ष
आयोजित एक दिवसीय कार्यक्रम


लखनऊ, १४ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशसर्वकारस्य कारागारमन्त्री दारासिंहचौहानः सोमवासरे लखनऊस्थिते कारागारमुख्यालये आयोजिते एक-दिवसीये कार्यक्रमे मुख्यातिथिरूपेण सहभागितां कृतवान्। कार्यक्रमे प्रदेशस्य सर्वेभ्यः ७५ कारागारेभ्यः कारागारा-धीक्षकाः, कारागारपालकाः, उपकारागार-पालकाः तथा कारागारविभागस्य अन्ये अधिकारिणः अपि सहभागितां कृतवन्तः। एकदिवसीयस्य अस्य कार्यक्रमस्य मुख्योद्देश्यं कारागारेषु निरुद्धानां बन्दिनां मानसिकचिन्तां न्यूनीकर्तुं तथा आत्महत्यायाः घटनाः निवारयितुम् अस्ति।

कारागारमन्त्री दीपप्रज्वलनं कृत्वा कार्यक्रमस्य औपचारिकम् उद्घाटनं कृतवान्। अस्मिन् अवसरे स्वसम्बोधने सः अवदत् यत् बन्दिनां एकाकित्वं, अवसादं तथा मानसिकतनावं च न्यूनीकर्तुं तैः सह सरलसहजरीत्या संवादस्थापनम् आवश्यकम् अस्ति।

सः अवदत् यत् परामर्शदातृभिः कारागारकर्मचारिभिः सह समन्वयं कृत्वा बन्दिनां समस्याः अवगन्तुं अधिकं प्रभावी भविष्यति, यतः कारागारकर्मचारिणः बन्दिनां दैनिकव्यवहारेण गतिविधिभिश्च निरन्तरं परिचिताः भवन्ति। अनेन प्रक्रियया यत्र कारागारकर्मचारिणां क्षमतानिर्माणं सशक्तीकरणं च भविष्यति, तत्रैव बन्दिनां सुधारस्य पुनर्वासस्य च कार्यमपि सम्यग्दिशां प्राप्स्यति।

कारागारमन्त्री अवदत् यत् प्रदेशस्य कारागारेषु बन्दिनः समाजस्य मुख्यधारया सह योजयितुं तथा तेषां मानसिकस्वास्थ्यं सम्यक् स्थापयितुं विविधाः कार्यक्रमाः सञ्चाल्यन्ते। तेषु विविधपर्वणाम् आयोजनं, श्रीमद्भगवद्गीतायाः पाठः, योगः, क्रीडाः तथा विविधाः कौशलविकासकार्यक्रमाः प्रमुखाः सन्ति। एताभिः गतिविधिभिः बन्दिभ्यः सकारात्मकं वातावरणं प्रदातुं तथा तान् एकान्तस्य एकाकित्वस्य च भावनायाः रक्षितुं प्रयासः क्रियते, येन तेषां मानसिकस्वास्थ्ये सुधारः भवेत् तथा ते समाजस्य मुख्यधारया सह सम्बद्धाः भवेयुः।

कार्यक्रमं सम्बोधयन् कारागार-महानिदेशकः पी.सी. मीना अवदत् यत् कारागारेषु सुरक्षया सह बन्दिनां मानसिकस्वास्थ्यस्य, सुधारस्य पुनर्वासस्य च विषये विशेषध्यानं दातुम् आवश्यकम् अस्ति। आरआईएसई-कार्यक्रमः अस्याः दिशायाः महत्त्वपूर्णः प्रयासः अस्ति। अस्य माध्यमेन बन्दिनां मानसिकानां भावनात्मकानां च समस्याणां समये एव परिचयं कृत्वा तेभ्यः आवश्यकं परामर्शं सहाय्यं च प्रदातुं प्रयासः क्रियते।

कार्यक्रमस्य प्रथमसत्रे किङ्ग जॉर्ज-मेडिकल-यूनिवर्सिटी इत्यस्य आरआईएसई-कार्यक्रमस्य प्रधानान्वेषकेण डॉ. राजीवमिश्रेण प्रस्तुति-माध्यमेन आरआईएसई-कार्यक्रमस्य उद्देश्यानां, कार्यप्रणाल्याः तथा अपेक्षितपरिणामानां च विषये सूचना प्रदत्ता। ततः दिव्यांशिसिंहेन आरआईएसई-डैशबोर्ड इत्यस्य प्रस्तुतीकरणं कृतम्, यस्मिन् कार्यक्रमस्य निरीक्षणाय प्रगतेः च कृते विकसितायाः डिजिटलव्यवस्थायाः विषये सूचना प्रदत्ता।

अस्मिन् अवसरे केजीएमयू-संस्थायाः ट्रॉमा-सर्जरी-विभागस्य विभागाध्यक्षः डॉ. सन्दीपचौधरी मानसिकस्वास्थ्यसम्बद्धेषु महत्त्वपूर्णेषु पक्षेषु प्रकाशं प्रक्षिप्तवान्। तेन बन्दिनां मानसिकचिन्ताया:, अवसादस्य तथा भावनात्मकसमस्यानां परिचयं कृत्वा समये एव उचितसहाय्यं परामर्शं च प्रदातुं महत्त्वस्य विषये विस्तरेण सूचना प्रदत्ता।

कार्यक्रमस्य अवधौ कारागार-महानिदेशकस्य पक्षतः कारागारमन्त्रिणे स्मृतिचिह्नं प्रदाय सम्मानितः कृतः।

कार्यक्रमस्य द्वितीयसत्रे प्रश्नोत्तरं संवादात्मकचर्चा च आयोजिता। अस्यां चर्चायां सहभागीभिः कारागाराधिकारिभिः मानसिकस्वास्थ्यस्य, परामर्शस्य तथा आरआईएसई-कार्यक्रमस्य प्रभाविसञ्चालनस्य सम्बन्धे विभिन्नेषु विषयेषु प्रश्नाः विचाराः च प्रस्तुताः। विशेषज्ञैः प्रतिभागिनां जिज्ञासानां समाधानं कृतम् तथा कारागारेषु कार्यक्रमस्य प्रभाविरूपेण कार्यान्वयनाय आवश्यकाः निर्देशाः विचाराश्च सहभागीकृताः।

अन्ते प्रतिभागिभ्यः प्रमाणपत्राणि वितरितानि तथा तेन सह आरआईएसई-कार्यक्रमस्य एकदिवसीयस्य उद्घाटन-सत्रस्य समापनम् अभवत्।

आरआईएसई-कार्यक्रमस्य उद्देश्यं कारागारेषु बन्दिनां मानसिकं भावनात्मकं च चिन्तां न्यूनीकर्तुं, मानसिक-स्वास्थ्यसम्बद्धानां समस्याणां समये एव परिचयं कर्तुं तथा आत्महत्यायाः घटनानां निवारणाय प्रभावी संवेदनशीलां च व्यवस्थां विकसितुम् अस्ति।

Hindusthan Samachar / Divya Ranjan