मध्यप्रदेशे खजरानागणेशस्य सप्तकोटिरूप्यकैः स्वर्णाभरणैः शृङ्गारः, चिन्तामणेः विपरीतस्वस्तिकस्य परम्परा
भोपालम्, १४ सेप्टेम्बरमासः (हि.स.)। गणेशचतुर्थ्यां सोमवासरे गृहात् आरभ्य मन्दिरेषु गणेशपण्डालेषु च गणपत्युत्सवस्य शुभारम्भः भवति। मध्यप्रदेशस्य इन्दौरजनपदस्थे खजराना-गणेशमन्दिरे प्रायः सप्तकोटिरूप्यकैः स्वर्णाभरणैः गणपतेः शृङ्गारः कृतः। अपरत्र बडाग
खजराना गणेश मंदिर इंदाैर


भोपालम्, १४ सेप्टेम्बरमासः (हि.स.)। गणेशचतुर्थ्यां सोमवासरे गृहात् आरभ्य मन्दिरेषु गणेशपण्डालेषु च गणपत्युत्सवस्य शुभारम्भः भवति। मध्यप्रदेशस्य इन्दौरजनपदस्थे खजराना-गणेशमन्दिरे प्रायः सप्तकोटिरूप्यकैः स्वर्णाभरणैः गणपतेः शृङ्गारः कृतः। अपरत्र बडागणपतिमन्दिरे १०१ किलोग्रामपरिमितैः मोदकैः नैवेद्यं समर्पयिष्यते। उज्जयिन्याः चिन्तामणि-गणेशमन्दिरे श्रद्धालवः मनोकामनापूर्त्यर्थं विपरीतस्वस्तिकं निर्मास्यन्ति।

मध्यप्रदेशे गृहेभ्यः आरभ्य बृहद्गणेश-मन्दिरेषु गणेशपण्डालेषु च उत्सवस्य हर्षोल्लासः दृश्यते। इन्दौरस्य खजरानागणेशमन्दिरे, बडागणपतिमन्दिरे तथा उज्जयिन्याः चिन्तामणिगणेशमन्दिरे विशेषपूजायै, शृङ्गाराय दर्शने च श्रद्धालूनां समूहः समागच्छति। खजरानागणेशमन्दिरे भगवान् गणेशः स्वर्णाभरणैः विशेषरूपेण अलङ्कृतः। अस्याः पूर्वं रविवासरे ब्राह्ममुहूर्ते भगवते हीरकजटिते नेत्रे धारिते। गणेशचतुर्थ्याः अवसरे मन्दिरे सपाल्लक्षं मोदकानां नैवेद्यमपि समर्पितम्।

खजरानागणेशमन्दिरे इन्दौरजनपदस्य जिलाधिकारी शिवमवर्मा विधिविधान-पूर्वकं भगवत: गणेशस्य पूजार्चनां कृतवान्। तेन प्रदेशस्य सुखसमृद्धेः कल्याणस्य च कामना कृता। जनपदाधिकारी शिवमवर्मा तथा नगरनिगमस्य आयुक्तः क्षितिजसिंघलः मन्दिरे ध्वजपूजनमपि कृतवन्तौ। गणेशचतुर्थ्याः अवसरे मन्दिरे विशेषपूजाः विविधाः कार्यक्रमाश्च आयोज्यन्ते।

खजरानागणेशमन्दिरं देशस्य प्रसिद्धेषु गणेशमन्दिरेषु अन्यतमम् अस्ति। अस्य निर्माणं १७३५ तमे वर्षे होल्करवंशस्य महाराज्ञ्या देवीअहिल्याबाईहोल्करेण कारितम् आसीत्। मान्यता अस्ति यत् अत्र भक्तानां सर्वाः मनोकामनाः पूर्णाः भवन्ति।

दीर्घगणपतिमन्दिरे १०१ किलोग्राम-मोदकानां नैवेद्यम्

इन्दौरस्य पश्चिमभागे स्थिते बडागणपतिमन्दिरे अस्मिन् वर्षे गणेशोत्सवः विशेषः अस्ति। मन्दिरस्य निर्माणस्य १२५ वर्षाणि पूर्णानि भवन्ति। अत्र भगवान् गणेशस्य २५ पादपरिमिता उन्नता तथा १४ पादपरिमिता विस्तीर्णा अद्भुता प्रतिमा अस्ति। प्रतिमा ४ पादपरिमिते विस्तीर्णे तथा १६ पादपरिमिते दीर्घे चतुरस्रे आसने विराजते, यत् पञ्चपादपरिमितम् उन्नतम् अस्ति।

मन्दिरस्य मुख्यपुजारी पण्डितः धनेश्वरदाधीचः अवदत् यत् गणेशोत्सवस्य अवधौ बहुसंख्यकाः भक्ताः भगवत: गणेशस्य दर्शनार्थम् आगच्छन्ति। सोमवासरे गृहे शुद्धगोघृतेन निर्मितानां सव्वमनपरिमितानां मोदकानां नैवेद्यं भगवते समर्पयिष्यते। अस्मिन् पञ्चकिलोग्रामपरिमितेभ्यः बृहन्मोदकेभ्यः आरभ्य क्रमशः न्यूनपरिमाणस्य मोदकानां नैवेद्यं समर्पयिष्यते, यत् प्रायः १०१ किलोग्रामपरिमितं भविष्यति। ततः भक्तेभ्यः प्रसादवितरणम् आरप्स्यते। भगवान् गणेशस्य प्रतिदिनं रात्रौ नववादने एकघण्टापरिमिता सङ्गीतमयी आरार्तिकी भविष्यति। श्रद्धालूनां समूहं दृष्ट्वा मन्दिरे प्रवेशाय निर्गमनाय च पृथक्-पृथक् द्वाराणि निर्मितानि सन्ति। भक्ताः प्रायः दश निमेषपर्यन्तं भगवन्तं सम्मुखे दर्शनं कर्तुं शक्ष्यन्ति।

चिन्तामणिगणेशमन्दिरे विपरीत-स्वस्तिक-निर्माणस्य परम्परा

उज्जयिन्याः चिन्तामणिगणेशमन्दिरे गणेशचतुर्थ्याः अवधौ श्रद्धालूनाम् आस्थायाः विशिष्टं रूपं दृश्यते। मन्दिरस्य विशिष्टपरम्परासु एका मन्दिरस्य पृष्ठभागे विपरीतस्वस्तिकस्य निर्माणम् अस्ति।

पुजारी गणेशगुरुः अवदत् यत् विशेषतः सन्तानप्राप्त्यर्थम् आगच्छन्तः श्रद्धालवः भगवत: पृष्ठभागे विपरीतस्वस्तिकं निर्माय स्वमनोकामनां याचन्ते। मनोकामनायाः पूर्त्यनन्तरं श्रद्धालवः पुनः मन्दिरम् आगत्य तत्र ऋजुस्वस्तिकं निर्मान्ति।

अनेकाः श्रद्धालवः मन्दिरे रक्षासूत्रमपि बध्नन्ति। मनोकामनायाः पूर्त्यनन्तरं ते पुनः मन्दिरम् आगत्य रक्षासूत्रं विमोचयन्ति। मन्दिरपरिसरे बृहत्तुलामपि स्थापिता अस्ति। मनोकामनापूर्त्यनन्तरं श्रद्धालवः धान्येन, मोदकैः अन्येन वा प्रसादेन तुलादानं कुर्वन्ति। अनेके परिवाराः सन्तानप्राप्त्यनन्तरं बालकस्य भारसमानेभ्यः मोदकेभ्यः तुलादानं कृत्वा तेभ्यः श्रद्धालुभ्यः प्रसादरूपेण वितरन्ति।

मन्दसौरे एकस्यां शिलायां विराजमानः द्विमुखी गणपतिः

मन्दसौरस्य द्विमुखीचिन्ताहरणगणपतेः मन्दिरे एकस्यामेव शिलायां निर्मिता प्रायः अष्टपादपरिमिता उन्नता गणेशप्रतिमा अस्ति, यस्याः उभयतः दर्शनं भवति। मन्दसौरस्य द्विमुखीचिन्ताहरणगणपति-मन्दिरसमितेः न्यासस्य उपाध्यक्षः नरेन्द्र-अग्रवालः अवदत् यत् प्रतिमायाः उत्तरे भागे पञ्चमुखीगणेशस्य स्वरूपं वर्तते, दक्षिणदिशि च भगवान् पगडीधारीसेठरूपेण दर्शनं ददाति। अत एव एते ‘सेठगणेशः’ इत्यपि कथ्यन्ते।

मान्यता अस्ति यत् १९२९ तमे वर्षे एषा प्रतिमा नाहरसय्यद-दरगाहस्य समीपे स्थितात् सरोवरात् प्राप्ता आसीत्। वृषभशकटेन प्रतिमां नरसिंहपुरं प्रति नयन्तः वर्तमानगणपतिचतुष्पथे वृषभ-शकटं स्थगितम् अभवत्। बहुप्रयत्ना-नन्तरमपि वृषभशकटम् अग्रे नेतुं न शक्यम् अभवत्। ततः प्रतिमा तत्रैव स्थापिता तथा च अस्य स्थानस्य नाम गणपतिचतुष्पथम् अभवत्।

शाजापुरे हनुमता सह विराजते गणेशः

शाजापुरजनपदस्य बोलाईग्रामे प्रायः त्रिशतवर्षप्राचीनं सिद्धवीरखेड़ापति-हनुमानमन्दिरम् आस्थायाः प्रमुखं केन्द्रम् अस्ति। मन्दिरे हनुमता सह गणेशस्य प्रतिमापि विराजते। मान्यता अस्ति यत् अत्र आगच्छतां भक्तानां मनोकामनाः पूर्णाः भवन्ति। प्रायः त्रिशतवर्षप्राचीनस्य अस्य मन्दिरस्य गणेशप्रतिमा गणेशोत्सवस्य अवधौ श्रद्धालूनां विशेषाकर्षणस्य केन्द्रं भवति।

Hindusthan Samachar / Divya Ranjan