Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १४ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियमार्गप्राधिकरणम् राष्ट्रियमार्गेषु यात्रिभ्यः उत्तमां शीघ्रतरां च सहायताम् उपलब्धं कर्तुं १०३३ सहायतासंख्यां नूतनाभिः प्रौद्योगिकीभिः सुसज्जितं कर्तुं गच्छति। उन्नतव्यवस्थायां कृत्रिम-बुद्धिमत्ता, वास्तविकसमय-स्थानानुसरणं तथा च स्मार्ट-आपत्कालीनप्रतिक्रियादि सुविधाः योजयिष्यन्ते।
मार्गपरिवहन-राष्ट्रियमार्गमन्त्रालयेन सोमवासरे उक्तं यत् नूतनव्यवस्थायां सहायतासंख्यां प्रति दूरभाषं कुर्वतः व्यक्तेः स्थानस्य परिचयः कर्तुं शक्यते, विभिन्नासु भारतीयभाषासु वार्तालापं अवगन्तुं शक्यते तथा च आवश्यकतानुसारं शीघ्रं सहायताम् उपलब्धं कर्तुं शक्यते। तथापि आपत्कालीनस्थितिषु मानवीय-सञ्चालकस्य भूमिका पूर्ववत् एव भविष्यति।
मन्त्रालयस्य अनुसारं १०३३ सहायतासंख्या २०१८ तमवर्षात् सञ्चालिता अस्ति तथा च अहोरात्रं उपलब्धा भवति। अस्याः माध्यमेन चिकित्सकीय-आपत्कालीनस्थितौ, वाहनदोषे, एम्बुलेन्स, क्रेन-पेट्रोलिङ्ग-वाहनयोः सहाय्ये, टोल-प्लाजा-फास्टटैग-सम्बद्धसूचनानां समाधानसहितं राष्ट्रिय-मार्गेषु यात्रिणां विविधसमस्यानां समाधानं क्रियते। सम्प्रति एषा सहायतासंख्या १.४६ लक्षकिलोमीटरतः अधिकं राष्ट्रिय-मार्गजालं व्याप्नोति तथा च प्रतिदिनं प्रायः १५ सहस्रं दूरभाषाह्वानानि प्राप्नोति।
नूतनव्यवस्थायां सहायता प्रेषणस्य प्रक्रिया अधिकं शीघ्रा करिष्यते। तदतिरिक्तं दूरभाषकर्तुः स्थानस्य स्वयमेव परिचयः, विभिन्नासु भारतीयभाषासु एआई-आधारितसहायता, आवश्यकतानुसारम् एम्बुलेन्स अथवा अन्येषां संसाधनानां शीघ्रं व्यवस्थापनम्, यात्रिभ्यः समये सूचनाप्रेषणम् तथा आपत्कालीनसेवानां मध्ये उत्तमसमन्वयः इत्यादयः सुविधाः उपलब्धाः भविष्यन्ति।
एनएचएआईद्वारा प्रवर्तिता निर्माणी भारतीयराजमार्गप्रबन्धनकम्पनी लिमिटेड् इत्यनेन अग्रिमवंशस्य १०३३ सहायता संख्याया: तथा दूरभाषकेन्द्रस्य विकासाय, सञ्चालनाय, अनुरक्षणाय च इच्छुक-निर्माणिभ्यः आवेदनानि आहूतानि सन्ति। अस्य कृते सॉफ्टवेयर-विकासे, डिजिटल-मञ्चे, अहोरात्रं दूरभाषकेन्द्रसञ्चालने तथा आपत्कालीनप्रतिक्रियासेवासु अनुभवयुक्ताः निर्माण्य: आमन्त्रिताः सन्ति।
Hindusthan Samachar / Divya Ranjan