Enter your Email Address to subscribe to our newsletters

भारत-पाकिस्तानयोः प्रतिस्पर्धा १ नवम्बर् दिनाङ्के, दर्शकेभ्यः प्रवेशः निःशुल्कः भविष्यति
मोहाली, १४ सितम्बरमासः (हि.स.)। पञ्जाबः अस्मिन् वर्षे पुरुषाणाम् एशियाई-चैम्पियन्स्-ट्रॉफी-हॉकी-प्रतियोगितायाः आतिथ्यं करिष्यति। प्रतियोगिता २७ अक्तूबर् तः ५ नवम्बर् पर्यन्तं भविष्यति तथा पाकिस्तानस्य दलमपि अस्यां प्रतियोगितायां भागं ग्रहीष्यति।
हॉकी-इण्डियायाः अधिकारिभिः सोमवासरे मोहालीनगरे फेज-९ स्थले स्थितस्य बलबीरसिंहसीनियर्-हॉकी-क्रीडाङ्गणस्य भ्रमणसमये कार्यक्रमस्य विवरणं प्रदत्तम्। प्रतियोगितायाः उद्घाटनं २७ अक्तूबर् दिनाङ्के अपराह्णे २:३० वादने जालन्धरे भविष्यति। लीग्-चरणस्य प्रतिस्पर्धाः जालन्धरे भविष्यन्ति, यदा तु नॉकआउट्-प्रतिस्पर्धाः, उपान्त्यप्रतिस्पर्धे, अन्तिमप्रतिस्पर्धा समापनसमारोहश्च ५ नवम्बर् दिनाङ्के मोहालीनगरे आयोजिताः भविष्यन्ति। सर्वाधिकं प्रतीक्षितः मुकाबलः भारत-पाकिस्तानयोः मध्ये भविष्यति। एषा प्रतिस्पर्धा १ नवम्बर् दिनाङ्के पञ्जाबदिवसस्य अवसरे जालन्धरे भविष्यति।
हॉकी-इण्डियायाः महासचिवः भोलानाथः सहिताः अन्ये अधिकारिणः पञ्जाबस्य मुख्यमन्त्रिणा भगवन्तमानेन सह मोहाली-क्रीडाङ्गणपरिसरस्य निरीक्षणं कृतवन्तः। मुख्यमन्त्रिणा आश्वासनं दत्तं यत् प्रतियोगितायां भागं गृह्णन्तः सर्वे दलाः अन्तर्राष्ट्रीयस्तरीयाः सुविधाः प्राप्स्यन्ति। भगवन्तमानः अवदत् यत् पाकिस्तानस्य दलं प्रतियोगितायां भागग्रहणस्य पुष्टिं कृतवान् अस्ति तथा हॉकी-इण्डियातः अपि अनुमतिः प्राप्ता अस्ति। सः अवदत् यत् एषा द्विपक्षीया श्रृङ्खला नास्ति, अपि तु बहुदेशीयप्रतियोगिता अस्ति, अतः पाकिस्तानस्य दलस्य यात्रायै अपि अनुमतिः प्रदत्ता अस्ति।
हॉकी-इण्डियायाः महासचिवः भोलानाथः अवदत् यत् भारत-पाकिस्तानयोः हॉकी-महासङ्घयोः मध्ये सौहार्दपूर्णाः सम्बन्धाः सन्ति तथा उभयदेशीयानां क्रीडकानां मध्ये अपि क्रीडाभावना सुदृढा अस्ति। सः अवदत् यत् पाकिस्तानस्य दलेन पञ्जाबे प्रतियोगितायां क्रीडितुं रुचिः प्रदर्शिता अस्ति। प्रतियोगितायां भारतं, पाकिस्तानं, जापानं, मलेशिया, चीनं कोरिया च इति षट् दलानि भागं ग्रहीष्यन्ति। ओमानं बाङ्ग्लादेशश्च आरक्षितदलरूपेण स्थापितौ स्तः। उद्घाटनप्रतिस्पर्धा जापान-मलेशिययोः मध्ये भविष्यति।
अस्मिन् अवसरॆ प्रतियोगितायाः प्रतीकमपि प्रकाशितम्, यस्मिन् पूर्वभारतीयकप्तानः वर्तमानक्रीडकश्च मनप्रीतसिंहः स्थानं प्राप्तवान् अस्ति। आयोजकैः घोषितं यत् जालन्धरे मोहालीनगरे च उभयत्र दर्शकेभ्यः निःशुल्कप्रवेशः प्रदास्यते। मुख्यमन्त्रिणा सूचितं यत् उभयक्रीडाङ्गणयोः उन्नयनकार्यं प्रचलति, यत् प्रतियोगितायाः पूर्वं पूर्णं करिष्यते। एतेषु पट्टिकाः, उन्नतासन्दव्यवस्था अन्तर्राष्ट्रीयमानकानुरूपाः अन्याः सुविधाश्च अन्तर्भवन्ति।
Hindusthan Samachar / Dheeraj Maithani