Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १४ सेप्टेम्बरमासः (हि.स.)। दिल्लीराज्यस्य मुख्यमन्त्री रेखागुप्ता सोमवासरे अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे १७ सेप्टेम्बरतः १७ अक्तूबरपर्यन्तं दिल्ली इत्यत्र मासपर्यन्तं ‘सेवासङ्कल्पाभियानं’ चाल्यते। अस्य अभियानस्य अन्तर्गतं दिल्लीराज्यसर्वकारस्य सर्वे विभागाः जनसेवया सम्बद्धान् विविधकार्यक्रमान् आयोजयिष्यन्ति। अभियानस्य अवधौ दिल्ली इत्यत्र प्रायः १३,८२० कोटि-रूप्यकाणां व्ययेन सम्पन्नानां विकास-परियोजनानाम् उद्घाटनं शिलान्यासश्च करिष्यते।
मुख्यमन्त्री प्रदेशभाजपाकार्यालये आयोजितस्य ‘सेवासङ्कल्पाभियानस्य’ पत्रकारवार्तां सम्बोधयन्ती अवदत् यत् प्रधानमन्त्रिणा मोदिना निरन्तरं जनसेवा स्वजीवनस्य ध्येयं कृतम् अस्ति। तस्य कार्यशैली सेवायां समर्पणं च सर्वेषां कृते प्रेरणादायकम् अस्ति। सा अवदत् यत् स्वास्थ्यविभागेन १७ सेप्टेम्बरे प्रधानमन्त्रिणः जन्मदिवसस्य अवसरे विशेषः महारक्तदानशिबिरम् आयो-जयिष्यते। दिल्लीराज्यसर्वकारस्य शिबिरे एकस्मिन् एव दिने २,५०० रक्त-एककानि सङ्कलितुं लक्ष्यम् निर्धारितम् अस्ति। तत्सह समाजकल्याणविभागस्य स्वास्थ्य-विभागस्य च सहयोगेन दिल्ली इत्यत्र वरिष्ठनागरिकाणां कृते विशेषाः स्वास्थ्यपरीक्षणशिबिराणि आयोजयिष्यन्ते। एतेषां शिबिराणां माध्यमेन प्रायः २५,००० वरिष्ठनागरिकाणां स्वास्थ्यपरीक्षणं करिष्यते।
मुख्यमन्त्री अवदत् यत् श्रमविभागेन दिल्ली इत्यत्र कार्यं कुर्वतां श्रमिकाणां निर्माणश्रमिकाणां च कृते विशेषकार्यक्रमाः आयोजयिष्यन्ते। अभियानस्य अवधौ श्रमिकाणां पञ्जीकरणं करिष्यते तथा तेषां स्वास्थ्यपरीक्षणस्य व्यवस्था करिष्यते। श्रमिकान् सर्वकारीय-सुविधाभिः कल्याणकारीयोजनाभिश्च योजयितुं तेषां पञ्जीकरणं महत्त्वपूर्णम् अस्ति। अनेन अभियानस्य माध्यमेन श्रमिकेभ्यः आवश्यकसेवानां प्रापणाय प्रयासः करिष्यते।
मुख्यमन्त्री अङ्गदानं जनसेवायाः महत्त्वपूर्णं माध्यमं वर्णयन्ती अवदत् यत् दिल्ली इत्यत्र अङ्गदानस्य प्रोत्साहनाय ‘स्टेट ऑर्गन एण्ड टिश्यू ट्रांसप्लाण्ट ऑर्गनाइजेशन’ नामकं आधिकारिकं मञ्चं सज्जीकृतम् अस्ति। इदं केन्द्रसर्वकारेण सञ्चालितव्यवस्थायाः अनुरूपं निर्मितम् अस्ति। सेवासङ्कल्पाभियानस्य अवधौ अस्य मञ्चस्य शुभारम्भः करिष्यते।
मुख्यमन्त्री अवदत् यत् नगरविकासविभागस्य दिल्लीनगर-निगमस्य च सहयोगेन दिल्ली इत्यस्य प्रत्येकस्मिन् प्रभागे, विधान-सभाक्षेत्रे, विभिन्नेषु स्थानेषु च विशेष-स्वच्छताभियानं चाल्यते। सा अवदत् यत् यमुनानद्याः स्वच्छतया सम्बद्धानां प्रायः ८,००० कोटिरूप्यकाणां परियोजनानाम् उद्घाटनं शिलान्यासश्च सेवासङ्कल्पाभियानस्य अवधौ दिल्लीराज्यसर्वकारेण करिष्यते।
सा अवदत् यत् पर्यावरणविभागेन ‘स्वच्छदिल्लि, हरितदिल्लि’ इति लक्ष्यस्य अन्तर्गतं दिल्ल्यां ७० लक्षवृक्षाणां पादपानां च रोपणस्य लक्ष्यम् निर्धारितम् अस्ति। सेवासङ्कल्पाभियानस्य अवधौ अस्य लक्ष्यस्य पूर्तये प्रत्येकस्मिन् प्रभागे पादपरोपणकार्यक्रमाः आयोजयिष्यन्ते।
मुख्यमन्त्री अवदत् यत् ‘मम स्वप्नानां भारतम्’ इति विषये विविधाः प्रतियोगिताः आयोजयिष्यन्ते। तासु चित्रकला-प्रतियोगिता, भाषणप्रतियोगिता, रील-निर्माणप्रतियोगिता च अन्तर्भवन्ति। दिल्ल्याः प्रायः ५,००० विद्यालयानां ५ लक्षविद्यार्थिनः एताभिः प्रतियोगिताभिः योजयितुं लक्ष्यम् निर्धारितम् अस्ति।
मुख्यमन्त्री अवदत् यत् १७ सेप्टेम्बरमासस्य सायंकाले ‘आशीर्वादस्य दीपः’ इति कार्यक्रमः आयोजयिष्यते। अस्य अन्तर्गतं दिल्ल्याः लाभार्थिनः स्वस्वगृहेषु दीपान् प्रज्वाल्य प्रधानमन्त्रिणे मोदिने जन्मदिवसस्य शुभकामनाः प्रदास्यन्ति। सा अवदत् यत् ‘नमोसेवायाः अनुक्तकथाः’ इति कार्यक्रमस्य अन्तर्गतं तेषां लाभार्थिनां वास्तविकजीवनकथाः जनसमक्षं प्रस्तोष्यन्ते, येषां जीवने सर्वकारीय-योजनाभिः सेवाभिश्च सकारात्मकः परिवर्तनः अभवत्। दिल्लीराज्यसर्वकारः लाभार्थिनां मध्ये गत्वा तेषां कथानां सङ्कलनं करिष्यति। एताः कथाः दृश्यचित्राणां पथनाटिकानां च माध्यमेन जनसमक्षं प्रस्तुताः करिष्यन्ते।
मुख्यमन्त्री अवदत् यत् दिल्ली इत्यत्र १०,८९७ आङ्गणवाडीकेंद्राणि सन्ति, यत्र प्रायः २१,३५० आङ्गणवाडीकार्यकर्तारः कार्यरताः सन्ति। सेवासङ्कल्पाभियानस्य अवधौ एते सर्वे आङ्गणवाडीकार्यकर्तारः सम्मानिताः करिष्यन्ते। सा अवदत् यत् ‘सेवासेतुअभियानस्य’ अन्तर्गतं केन्द्र-सर्वकारस्य दिल्लीराज्यसर्वकारस्य च विविधाः योजनाः प्रत्यक्षं जनसामान्यं प्रति प्रापयिष्यन्ते। दिल्ल्याः सर्वेषु ७० विधानसभाक्षेत्रेषु त्रिदिवसीयविशेष-शिबिराणि आयोजयिष्यन्ते। एतेषु शिबिरेषु केन्द्रसर्वकारस्य दिल्लीराज्यसर्वकारस्य च विविधयोजनासम्बद्धा सूचना सेवाश्च उपलब्धाः भविष्यन्ति।
मुख्यमन्त्री अवदत् यत् ‘सेवायाः वर्णाः, राष्ट्रस्य सङ्गे’ इति कार्यक्रमस्य अन्तर्गतं रङ्गोली-मण्डलाकलयोः माध्यमेन विशेषकार्यक्रमाः आयोजयिष्यन्ते। तत्सह देशव्यापिनः ‘इनोवेशन चैलेंज’ इत्यस्य कृते पञ्च केन्द्राणि निर्मीयन्ते। प्रत्येकं राज्यं तस्मिन् भागं गृह्णीयात्। दिल्ली इत्यस्मै अपि अस्य कार्यक्रमस्य कृते एकं केन्द्रं प्रदत्तम् अस्ति। दिल्ल्यां समीपस्थराज्यानां युवानः अपि अस्मिन् कार्यक्रमे योजयिष्यन्ते। यूनां नवाचाराणां नूतनविचाराणां च कृते मञ्चः प्रदास्यते तथा तान् जनसमक्षं प्रस्तोतुम् अवसरः अपि दीयते।
मुख्यमन्त्री अवदत् यत् सेवासङ्क-ल्पाभियानस्य अवधौ ‘सुशासनसेवासंवादः’ इति कार्यक्रमोऽपि आयोजयिष्यते। अस्य अन्तर्गतं दिल्लीराज्यसर्वकारस्य विभिन्नैः विभागैः जनहिताय क्रियमाणानां कार्याणां सुशासनसम्बद्धानां च उपक्रमाणां सूचना जनसामान्यं प्रति प्रापयिष्यते।
Hindusthan Samachar / Divya Ranjan