Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १४ सेप्टेम्बरमासः (हि.स.)। भाजपायाः राष्ट्रियप्रवक्ता राज्यसभासदस्यः च डॉ. सुधांशुत्रिवेदी अवदत् यत् राज-स्थानस्य ३०९ स्थानीयनिकायेषु सम्पन्नानां निर्वाचनानां परिणामेषु भारतीयजनतापक्षः विजयस्य दिशि अग्रे वर्धते तथा च १० नगरनिगमेषु ९ नगरनिगमेषु भाजपायाः सहयोगिभिः सह सर्वकारनिर्माणस्य स्थितिः अस्ति।
सोमवासरे केन्द्रीयकार्यालये पत्रकार-प्रतिनिधिभिः सह वार्तालापं कुर्वन् डॉ. त्रिवेदी अवदत् यत् काङ्ग्रेस-सर्वकारेण निर्वाचनं ८ चरणेषु कारयितुं तथा जयपुर-जोधपुर-कोटानगरनिगमानां विभाजनस्य नीतिं जनैः निरस्तं कृतम्, यदा तु भाजपासर्वकारेण एकस्मिन्नेव चरणे निर्वाचनं कारितम्।
डॉ. सुधांशुत्रिवेदी अवदत् यत् राजस्थानस्य स्थानीयनिकायानां निर्वाचनपरिणामाः पुरतः आगताः सन्ति। अद्यावधि प्राप्तानां निरन्तरनिर्वाचनपरिणामानाम् अनुसारं भारतीयजनतापक्षः शानदारविजयस्य दिशि अग्रे वर्धते। राजस्थानस्य १० नगरनिगमेषु, ४७ नगरपरिषत्सु २५२ नगरपालिकासु च, एवम् आहत्य ३०९ स्थानेषु निर्वाचनम् अभवत्। वर्तमानस्थितौ १० नगरनिगमेषु केवलम् एकस्मिन् नगरनिगमे काङ्ग्रेसः अग्रे अस्ति, यदा तु शेषेषु सर्वेषु नगरनिगमेषु भारतीयजनतापक्षः स्वसहयोगिभिः सह सर्वकारनिर्माणस्य स्थितौ अस्ति। काङ्ग्रेस-सर्वकारेण राजस्थानस्य स्थानीयनिकायानां निर्वाचनैः सह यत् क्रीडितम् आसीत्, तस्य जनैः मुखभङ्गं कृतम्।
भाजपायाः राष्ट्रियप्रवक्ता अवदत् यत् राजस्थानस्य स्थानीयनिकायानां निर्वाचनानि ८ चरणेषु कारितानि आसन्, यदा तु भाजपासर्वकारेण तानि एकस्मिन्नेव चरणे कारितानि। जयपुर-जोधपुर-कोटानगरनिगमानां विभाजनं कृतम् आसीत्। तथापि भारतीय-जनतापक्षस्य पक्षे सम्पन्नेन मतदानात् स्पष्टं भवति यत् राजस्थानस्य जनैः नगरनिगमानां विभाजनस्य विकृती-करणस्य च नीतिः पूर्णतया निरस्ता अस्ति। एतत् पुनरेकवारं दर्शयति यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशस्य जनानां विश्वासः निरन्तरं वर्धमानः अस्ति। तत्सह राजस्थानस्य जनैः मुख्यमन्त्रिणः श्रीभजनलालशर्मणः सर्वकारं प्रति अपि सकारात्मकस्वीकृतिः प्रदत्ता अस्ति।
डॉ. त्रिवेदी अवदत् यत् अस्मात् अपि अधिकं महत्त्वपूर्णम् इदं यत् कोटानगरे, यत्र राहुलगान्धिना गत्वा मिथ्यायाः प्रतिध्वनिं कर्तुं प्रयासः कृतः आसीत्, तत्र भारतीयजनतापक्षः समृयग्रीत्या विजयं प्राप्यमाणः दृश्यते। एतत् कुत्रचित् दर्शयति यत् काङ्ग्रेसपक्षस्य कथनेषु प्रचारः अधिकः यथार्थं च न्यूनम् अस्ति। वयं समकालमेव ‘एकं निर्वाचनम्, एकं राज्यम्’ इति नीत्या निर्वाचनं कारितवन्तः, यदा तु काङ्ग्रेसेन एतावद्भिः चरणैः निर्वाचनं कारितम्, तथापि तेन सफलता न प्राप्ता। अतः वयं एतेषां निर्वाचनपरिणामानां कृते राजस्थानस्य जनानाम् आभारं प्रकटयामः तथा भारतीयजनतापक्षस्य कार्यकर्तृभ्यः धन्यवादं दद्मः। वयं भाजपायाः सङ्गठनाय, प्रदेशाध्यक्षाय सर्वेभ्यश्च साधुवादं दद्मः।
डॉ. सुधांशुत्रिवेदी अवदत् यत् पुनरेकवारं इदं स्पष्टं भवति यत् गतवारं येषु ६ जनपदेषु—बून्दी, दौसा, हनुमानगढः, करौली, धौलपुरः भरतपुरं च—भाजपायाः कस्यामपि निकायसंस्थायाम् अपि एकमपि बोर्ड् निर्मितुं न शक्यते स्म, तेषु जनपदेषु अपि अस्मिन् वारे भाजपा सम्यग्रीत्या अग्रे वर्धते। अतः एतत् भाजपायाः सामाजिकभौगोलिकव्याप्तेः दिशि अपि महत्त्वपूर्णं पदम् अस्ति।
Hindusthan Samachar / Divya Ranjan