Enter your Email Address to subscribe to our newsletters

सायंकाले षोडशशृङ्गारं कृत्वा भगवान् शिवः माता पार्वती च पूजितौ, मङ्गलागौर्याः देहल्यां च प्रणामः कृतः
वाराणसी, १४ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगर्यां वाराणस्यां पत्युः दीर्घायुः अखण्डसौभाग्यं च कामयित्वा विवाहिताभिः महिलाभिः सोमवासरे पूर्णश्रद्धया हर्षोल्लासेन च हरितालिका-तीज इत्यस्य निर्जलव्रतम् अनुष्ठितम्। महिलाः चतुर्विंशतिहोराणाम् अनन्तरं मङ्गलवासरे अस्य कठिनव्रतस्य पालनं करिष्यन्ति।
भाद्रपदमासस्य शुक्लपक्षस्य तृतीयातिथौ पर्वणः विषये उत्साहिताभिः महिलाभिः प्रातः स्नानध्यानादिकं कृत्वा फेनीभक्षणेन व्रतस्य सङ्कल्पः कृतः। सम्पूर्णदिवसं निर्जलाः स्थित्वा सायंकाले षोडशशृङ्गारं कृत्वा महिलाभिः पुष्पैः, धूपदीपैः नैवेद्यादिभिश्च भगवान् शिवः माता पार्वती च पूजितौ। गृहेषु सायंकाले तीजव्रतकथायाः श्रवणम् अपि कृतम्। मृण्मययोः शिवपार्वत्योः गणपतेश्च पूजनम् अनुष्ठितम्।
ततः पूर्वं महिलाभिः पञ्चगङ्गाघाटस्थितायाः माता मङ्गलागौर्याः मन्दिरे दर्शनं कृत्वा पूजा कृता। मन्दिरस्य मुख्यद्वारं शिरसा स्पृष्ट्वा ताभिः मातुः समीपे अखण्डसौभाग्याय गृहपरिवारस्य सुखसमृद्ध्यै च प्रार्थना कृता।
हुकुलगञ्ज-नवबस्ती-निवासिन्यः निशा श्रीवास्तवा, मीनाक्षी गुप्ता, मिताली च अवदन् यत् ताभिः महोत्साहेन व्रतम् अनुष्ठितम्। अस्माकं गृहे एषा परम्परा पूर्वकालादेव प्रचलिता अस्ति। व्रतेन भगवत: शिवस्य मातुः पार्वत्याश्च आशीर्वादः प्राप्यते।
ज्योतिषविद् आचार्यः रविन्द्रतिवारी अवदत् यत् एतद् व्रतम् आदौ माता पार्वती भगवन्तं शङ्करं पतिरूपेण प्राप्तुं कृतवती आसीत्। अस्मिन्नेव दिने भगवती पार्वती व्रतम् अनुष्ठाय भगवन्तं शिवं पतिरूपेण प्राप्तवती आसीत्। अतः अस्मिन् दिने शिवपार्वत्योः पूजायाः विधिविधानं प्रचलितम् अस्ति।
अस्मिन् दिने महिलाः मङ्गलागौर्याः दर्शनं पूजनं च कुर्वन्ति। नवगौरी मङ्गलागौर्याः दर्शनात् अखण्डसौभाग्यं, सन्तानसुखम् आरोग्यं च प्राप्यते। येषां कन्यानां शीघ्रं विवाहः न भवति, ताः यदि मातुः मन्दिरे दर्शनपूजनं कुर्वन्ति, तर्हि तासां विवाहसम्बन्धिन्यः बाधाः दूरीभवन्ति।
Hindusthan Samachar / Divya Ranjan