Enter your Email Address to subscribe to our newsletters

रायपुरम्, 15 सितंबरमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः अद्य मङ्गलवासरे ‘जल-जन-सेवा-सङ्कल्प-यात्रायै’ हरितध्वजं दर्शयित्वा तां प्रस्थापयिष्यति। भारतीयजनतायुवामोर्चा-दलाय (भाजयुमो) अस्याः यात्रायाः सञ्चालनस्य दायित्वं समर्पितम् अस्ति। मुख्यमन्त्री सायः सायं ४:३० वादने बसयानानि हरितध्वजं दर्शयित्वा यात्रादलं प्रस्थापयिष्यति।
एषा सङ्कल्पयात्रा १७ सितम्बरतः ७ अक्टोबर्-पर्यन्तं प्रचलिष्यति। प्रायः विंशतिदिनपर्यन्तं चलन्ती एषा यात्रा विभिन्नराज्येभ्यः गमिष्यति। अस्यां छत्तीसगढ-भाजयुमो-दलस्य १०० युवानः सम्मिलिताः भविष्यन्ति।
यात्रायाः प्रारम्भः वडनगरतः काशीतश्च एकस्मिन् समये भविष्यति। सम्पूर्णदेशे अस्यै कृते २० पृथक् मार्गाः निर्धारिताः सन्ति। प्रत्येकस्मिन् मार्गे २५ पदयात्रिकाः सम्मिलिताः भविष्यन्ति, यदा ५० युवानः द्विचक्रिकायानेषु जलपूर्णानि कलशानि नीत्वा यात्रां करिष्यन्ति।
यात्रायाः काले विभिन्नानां पवित्रनदीनां जलं संगृहीतं भविष्यति। ततः हाटकेश्वर-महादेवस्य काशी-विश्वनाथ-मन्दिरस्य च एकत्रितेन जलेन जलाभिषेकः करिष्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani