Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १५ सितम्बरमासः(हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना, लोकसभाध्यक्षेण ओमबिरला इत्यनेन, रक्षामन्त्रिणा राजनाथसिंहेन च समेतैः बहुभिः नेतृभिः मङ्गलवासरे भारतरत्नेन सम्मानितस्य डॉ. मोक्षगुण्डम्-विश्वेश्वरय्यस्य जन्मजयन्त्याः अवसरे तस्मै श्रद्धाञ्जलिः समर्पितः तथा च तस्य स्मृतौ आयोज्यमानस्य ‘राष्ट्रीय-अभियन्तृ-दिवसस्य’ अवसरे देशवासिभ्यः हार्दिकाः शुभकामनाः प्रदत्ताः।
प्रधानमन्त्रिणा नरेन्द्रमोदिना सामाजिक-माध्यम-मञ्चे एक्स इत्यत्र लिखितं यत्, “एम्. विश्वेश्वरय्याय श्रद्धाञ्जलिः, यस्य अभियान्त्रिकीप्रतिभा राष्ट्रनिर्माणस्य चिन्तनं च अद्यापि प्रेरणां ददाति। आधुनिकभारतस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहता देशस्य सर्वोच्चसम्मानेन ‘भारतरत्न’ इत्यनेन सम्मानितेन महान् अभियन्त्रा मोक्षगुण्डम्-विश्वेश्वरय्येन जन्मजयन्त्याः अवसरे कोटिशः प्रणामाः। तस्य स्मृतौ आयोज्यमानस्य ‘अभियन्तृ-दिवसस्य’ अवसरे राष्ट्रनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहद्भ्यः सर्वेभ्यः अभियन्तृभ्यः हार्दिकाः बधायाः अनन्ताः शुभकामनाश्च। एते ते जनाः सन्ति, ये श्रेष्ठतरस्य भविष्यस्य कृते निर्माणं कुर्वन्ति, नूतनानि वस्तूनि निर्मान्ति समाधानानि च प्रददति।”
लोकसभाध्यक्षेण ओमबिरलेन उक्तं यत् डॉ. विश्वेश्वरय्येन स्वस्य असाधारणया प्राविधिकदक्षतया, अनुशासनेन, दूरदर्शितया च भारतस्य जलसंसाधनानां, सिञ्चनस्य, सार्वजनिकमूलभूतसंरचनायाः च विकासे महत्त्वपूर्णं योगदानं प्रदत्तम्। तस्य जीवनम् अस्य प्रमाणम् अस्ति यत् यदि ज्ञानम्, नवाचारः, कर्तव्यनिष्ठा च राष्ट्रहितेन सह सम्बध्यन्ते, तर्हि असम्भवमपि सम्भवं कर्तुं शक्यते। अद्यतनः दिवसः देशस्य तेषां लक्षशः अभियन्तॄणां प्रति सम्मानं कृतज्ञतां च व्यक्तुं अवसरः अस्ति, ये स्वप्रतिभया नवाचारेण च भारतस्य विकासस्य नूतनां गाथां लिखन्ति। अद्य यदा भारतं सुदृढमूलभूतसंरचनायाः, आधुनिकप्रौद्योगिक्याः, अङ्कीयप्रगतेः, आत्मनिर्भरतायाः, नवाचारस्य च क्षेत्रेषु नूतनान् आयामान् स्थापयति, तदा अस्माकम् अभियन्तॄणां भूमिका अधिकमहत्त्वपूर्णा भवति।
रक्षामन्त्रिणा राजनाथसिंहेन उक्तं यत् देशस्य अभियन्तॄणां क्षमता परिश्रमश्च भारतस्य प्राविधिकप्रगतिम् अग्रे नयतः, मूलभूतसंरचनां सुदृढां कुरुतः तथा च ‘विकसितभारतस्य’ निर्माणं कुर्वतः। एम्. विश्वेश्वरय्यस्य जीवनम् उत्कृष्टतायाः, अनुशासनस्य, नवाचारस्य, जनसेवायाश्च उत्तमम् उदाहरणम् अस्ति। भारतस्य राष्ट्रनिर्माणस्य यात्रायां तस्य असाधारणं योगदानं सर्वदा स्मरिष्यते।
केन्द्रीयसड़कपरिवहन-राजमार्गमन्त्रिणा नितिनगडकरीणोक्तं यत् एम्. विश्वेश्वरय्यस्य अद्भुता दूरदर्शिता, अनुशासनम्, अभियान्त्रिक्यां उत्कृष्टता च अद्यापि पीढीः प्रेरयति। तस्य जीवनं स्मारयति यत् अभियान्त्रिकी केवलं संरचनानां निर्माणं न, अपितु सुदृढस्य, लचीलेन आत्मनिर्भरस्य च राष्ट्रस्य निर्माणम् अपि अस्ति।
काङ्ग्रेस्-दलस्य राष्ट्रीयाध्यक्षेण मल्लिकार्जुनखर्गेण भारतरत्नेन सम्मानितस्य एम्. विश्वेश्वरय्यस्य जन्मजयन्त्याः अवसरे तस्मै सादरं नमनं कृतम् तथा ‘राष्ट्रीय-अभियन्तृ-दिवसस्य’ अवसरे देशस्य प्रगत्यै प्रयत्नशीलानां सर्वेषाम् अभियन्तॄणां प्रति हार्दिकाः बधायाः प्रदत्ताः।
केन्द्रीयगृहमन्त्रिणा सहकारितामन्त्रिणा च अमितशाहेन उक्तं यत् तेषां निरन्तरनवाचाराः भारतस्य प्रगतिं निरन्तरविकासं च अग्रे नयन्ति। राष्ट्रनिर्माणे एम्. विश्वेश्वरय्यस्य असाधारणस्य योगदानस्य महत्त्वपूर्णा भूमिका आसीत्।
केन्द्रीयविज्ञान-प्रौद्योगिक्यामन्त्रिणा डॉ. जितेन्द्रसिंहेन उक्तं यत् देशस्य अभियन्तारः स्वज्ञानस्य, कौशलस्य, नवाचारस्य च माध्यमेन राष्ट्रनिर्माणे अमूल्यं योगदानं प्रददति।
केन्द्रीयकृषि-कृषककल्याणमन्त्रिणा शिवराजसिंहचौहानेन उक्तं यत् अभियान्त्रिक्याः माध्यमेन राष्ट्रस्य समाजस्य च सेवायै भवद्भिः कृतानि अद्वितीयानि कार्याणि सक्षमस्य राष्ट्रस्य सशक्तस्य समाजस्य च निर्माणे भाविपीढीनां सदैव प्रेरणां प्रदास्यन्ति। भारतमातुः अस्य महान् सुतस्य चरणयोः प्रणामः।
---------------
Hindusthan Samachar / Dheeraj Maithani