प्रधानमन्त्रिणा नरेन्द्रमोदिना मङ्गलवासरे जैनधर्मस्य पवित्रपर्वणः संवत्सरी-पर्वणः अवसरे देशवासिभ्यः शुभकामनाः प्रदत्ताः।
नवदिल्ली, १५ सितम्बरमासः (हि.स.)। अस्मिन् अवसरे तेन प्रेम्णः, सौहार्दस्य, करुणायाः सद्भावनायाश्च जीवनस्य आधाररूपेण स्वीकरणस्य सन्देशः प्रदत्तः।प्रधानमन्त्रिणा सामाजिक-माध्यम-मञ्चे एक्स इत्यत्र संस्कृतस्य एकः श्लोकः साझा-कृतः। तेन लिखितम्—“सहृदयं स
प्रतीकात्मक


नवदिल्ली, १५ सितम्बरमासः (हि.स.)। अस्मिन् अवसरे तेन प्रेम्णः, सौहार्दस्य, करुणायाः सद्भावनायाश्च जीवनस्य आधाररूपेण स्वीकरणस्य सन्देशः प्रदत्तः।प्रधानमन्त्रिणा सामाजिक-माध्यम-मञ्चे एक्स इत्यत्र संस्कृतस्य एकः श्लोकः साझा-कृतः। तेन लिखितम्—“सहृदयं सांमनस्यमविद्वेषं कृणोमि वः। अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या॥”

प्रधानमन्त्रिणा अस्य भावार्थं कथयता उक्तं यत् मनुष्यैः तादृशानि कर्माणि कर्तव्यानि, येन हृदये प्रेम, सौहार्दं सद्भावना च वर्धेरन्। तेन उक्तं यत् सर्वे जनाः परस्परं प्रति तादृशं स्नेहं आत्मीयतां च धारयेयुः, यादृशं प्रेम गावः स्वस्य नवजातवत्सं प्रति धारयन्ति।

प्रधानमन्त्रिणा संवत्सरी-पर्वणः अवसरे देशवासिभ्यः हार्दिकाः शुभकामनाः प्रदत्ताः। तेन उक्तं यत् एतत् पवित्रमवसरं अस्मान् स्मारयति यत् क्षमा करुणा च प्रत्येकं सम्बन्धं दृढतरं कुरुतः। तेन उक्तं यत् संवत्सरी-पर्वणि विनयः जनानां मार्गदर्शनं करोतु तथा दया सद्भावना च प्रत्येकस्य कार्यस्य आधारः भवतु।

प्रधानमन्त्रिणा स्वसन्देशस्य समापनं जैनपरम्परायाः प्रसिद्धेन क्षमायाचनावाक्येन “मिच्छामि दुक्कडम्” इत्यनेन कृतम्।

उल्लेखनीयं यत् संवत्सरी जैनधर्मस्य प्रमुखेषु पवित्रपर्वसु अन्यतमम् अस्ति, यत् मुख्यतया क्षमायै, आत्मशुद्धये प्रायश्चित्ताय च आचर्यते। एतत् पर्युषण-महापर्वणः अन्तिमः दिवसः भवति।

Hindusthan Samachar / Dheeraj Maithani