Enter your Email Address to subscribe to our newsletters

नवदेहली, १५ सितम्बरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः मङ्गलवासरे कृषिकार्यसम्बद्धस्य सामुदायिकपर्वणः ‘नुआखाई’-पर्वणः अवसरे देशवासिभ्यः शुभकामनाः प्रदत्तवती।
राष्ट्रपतिः मुर्मुः सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र लिखितवती यत्— “कृषिकार्यसम्बद्धस्य सामुदायिकपर्वणः ‘नुआखाई’-पर्वणः अवसरे देशवासिभ्यः ओडिशाराज्यस्य जनाभ्यश्च अहं हार्दिकाः शुभकामनाः प्रददामि। नुआखाई केवलं पारम्परिकं पर्व एव नास्ति, अपितु सामुदायिकभोजनस्य, मित्रैः सह सामाजिक-पारिवारिक-स्नेहसम्मेलनस्य च प्रतीकम् अपि अस्ति। मम विश्वासः अस्ति यत् अनेन पर्वणा परस्परं सद्भावः भ्रातृत्वभावश्च अधिकं सुदृढौ भविष्यतः। अस्मिन् शुभावसरे सर्वेषां सुखं शान्तिः समृद्धिश्च भवतु इति कामये।”
उल्लेखनीयं यत् ‘नुआखाई’ ओडिशा, छत्तीसगढ तथा झारखण्डस्य कतिपयेषु भागेषु आचर्यमाणं प्रमुखं कृषिसामुदायिकपर्व अस्ति। एतत् पर्व नूतनस्य धान्यस्य, विशेषतः नवतण्डुलस्य, स्वागतार्थं तथा च ईश्वरं प्रति कृतज्ञताभावस्य प्रकटनार्थम् आचर्यते।
Hindusthan Samachar / Dheeraj Maithani