Enter your Email Address to subscribe to our newsletters

कोलकाता, १७ सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्रिणा शुभेन्दु-अधिकारिणा गुरुवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे तस्मै शुभकामनाः प्रदत्ताः। तेन सामाजिक-माध्यमे सन्देशं प्रकाश्य प्रधानमन्त्रिणः प्रति सम्मानं प्रकटितम् तथा च तस्य दीर्घायुषः, उत्तमस्वास्थ्यस्य, देशसेवायां निरन्तरसफलतायाश्च कामना कृता।
स्वसन्देशे मुख्यमन्त्री शुभेन्दु-अधिकारी प्रधानमन्त्रिणः नरेन्द्रमोदिनः विश्वस्य प्रभावशालिषु नेतृषु अन्यतमः इति वर्णयन् तस्मै जन्मदिवसस्य हार्दिक्य: शुभकामनाः प्रदत्तवान्। सः अवदत् यत् प्रधानमन्त्रिणः दीर्घायुषः, उत्तमस्वास्थ्यस्य, राष्ट्रसेवायां निरन्तरसफलतायाश्च कृते सः ईश्वरं प्रार्थयति।
मुख्यमन्त्रिणा स्वसन्देशे इदमपि कामितं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशः अग्रेऽपि प्रगतिं निरन्तरं करोतु।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसः प्रतिवर्षं १७ सेप्टेम्बरमासे आचर्यते। अस्मिन् अवसरे देशस्य विभिन्नेभ्यः भागेभ्यः राजनैतिकनेतृभिः विभिन्नक्षेत्राणां च विभूतिभिः प्रधानमन्त्रिणे शुभकामनाः प्रदत्ताः।
Hindusthan Samachar / Divya Ranjan