Enter your Email Address to subscribe to our newsletters

रायपुरम्, १७ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य गुरुवासरे राजधान्यां रायपुरे आयोजितेषु विविधेषु कार्यक्रमेषु सम्मिलिष्यति। मुख्यमन्त्रिणः दिवसभरं नगरे विभिन्नेषु स्थानेषु कार्यक्रमाः निर्धारिताः सन्ति। अस्मिन् क्रमे सः भगवत: विश्वकर्मणः पूजाकार्यक्रमे, श्रमिकमहासम्मेलने, कृषकश्रमिक-सम्मेलने तथा ‘आशीर्वादस्य दीपः’ इति कार्यक्रमे सम्मिलिष्यति।
निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११ वादने मुख्यमन्त्रिनिवासे आयोजिते भगवत: विश्वकर्मणः पूजाकार्यक्रमे सम्मिलिष्यति। ततः मध्याह्ने १२ वादने बूढ़ापारास्थिते सरदारबलबीरसिंहजुनेजा-इन्डोरक्रीडाङ्गणं गत्वा श्रमिकमहा-सम्मेलने भागं ग्रहीष्यति।
मुख्यमन्त्री मध्याह्ने २:४० वादनतः सायं ४:१५ वादनपर्यन्तं बीरग्रामस्य बुधवारी-विपणे स्थास्यति। तत्र सः भगवान् विश्वकर्मणः पूजाकार्यक्रमे कृषकश्रमिक-सम्मेलने च सम्मिलिष्यति।
कार्यक्रमाणां क्रमस्य अन्तर्गतम् मुख्यमन्त्री सायं ४:४० वादने महादेवघट्टं प्राप्स्यति, यत्र सः ‘आशीर्वादस्य दीपः’ महाआरतीकार्यक्रमे सम्मिलिष्यति। ततः सायं ६:३५ वादने तेलीबन्धासरोवरस्थितं मरीनड्राइव इति स्थलं प्राप्य ‘आशीर्वादस्य दीपः’ कार्यक्रमे भागं ग्रहीष्यति।
Hindusthan Samachar / Divya Ranjan