नूतनभारतस्य शिल्पिने प्रधानमन्त्रिणे जन्मदिवसस्य हार्दिकाः शुभकामनाः : मुख्यमन्त्री
पटना, 17 सितम्बरमासः (हि.स.)। मुख्यमन्त्री सम्राट् चौधरी इत्यनेन विश्वकर्मापूजायाः अवसरः सर्वेभ्यः बिहारवासिभ्यः शुभकामनाः प्रदत्ताः।मुख्यमन्त्रिणा स्वकीयस्य एक्स-सामाजिकमाध्यमे प्रकाशिते सन्देशे लिखितम् यत् विश्वकर्मापूजायाः पावनेऽवसरे सर्वेभ्यः
नूतनभारतस्य शिल्पिने प्रधानमन्त्रिणे जन्मदिवसस्य हार्दिकाः शुभकामनाः : मुख्यमन्त्री


पटना, 17 सितम्बरमासः (हि.स.)।

मुख्यमन्त्री सम्राट् चौधरी इत्यनेन विश्वकर्मापूजायाः अवसरः सर्वेभ्यः बिहारवासिभ्यः शुभकामनाः प्रदत्ताः।मुख्यमन्त्रिणा स्वकीयस्य एक्स-सामाजिकमाध्यमे प्रकाशिते सन्देशे लिखितम् यत् विश्वकर्मापूजायाः पावनेऽवसरे सर्वेभ्यः बिहारवासिभ्यः हार्दिकाः शुभकामनाः। अद्यतनं दिनं विशेषमहत्त्वपूर्णम् अस्ति, यतः अद्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसः अस्ति। तेन स्वजीवनस्य सम्पूर्णः कालः राष्ट्राय देशसेवायै च समर्पितः। तस्य दीर्घकालीनस्य राष्ट्रसेवायाः यात्रायै नमनं कुर्वन् उत्तमस्वास्थ्यस्य दीर्घायुष्यस्य च मङ्गलकामनां करोमि।

तेन उक्तं यत् सप्तदशसितम्बरतः सप्तदशअक्टोबरपर्यन्तं सम्पूर्णे बिहारप्रदेशे ‘सेवासङ्कल्पाभियानम्’ आयोज्यते। ‘सेवासेत्वभियानस्य’ अन्तर्गतं सर्वेषु प्रखण्डेषु विधानसभाक्षेत्रेषु च ‘भवद्वारे शासनम्’ समाधानशिविराणि आयोज्य नागरिकानां समस्याः समाधास्यन्ते। अपरत्र मार्च् २०२७ पर्यन्तं ‘कायाकल्पाभियानस्य’ माध्यमेन विकासकार्येषु तीव्रता, स्वच्छता तथा शासकीयसेवानां गुणवत्ता जनसामान्यं प्रति तासां च प्राप्यता अधिकप्रभावितया सुदृढीकरिष्यते।

तेन उक्तं यत् आगच्छामः, अद्य एकं दीपं प्रज्वाल्य नूतनभारतस्य शिल्पिनः स्वस्थस्य सफलस्य च जीवनस्य तथा विकसितभारतस्य समृद्धबिहारस्य सङ्कल्पं अधिकं सुदृढं कुर्मः।

---------------

Hindusthan Samachar / Dheeraj Maithani