जयरामठाकुरेण प्रधानमन्त्रिणे मोदिने जन्मदिवसस्य शुभकामनाः प्रदत्ताः
शिमला, १७ सेप्टेम्बरमासः (हि.स.)। हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्रिणा प्रतिपक्षनेत्रा च जयरामठाकुरेण प्रधान-मन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे हार्दिक्य: शुभकामनाः प्रदत्ताः। तेन देवभूमेः हिमाचलप्रदेशस्य जनानां पक्षतः प्रधानमन्त्रिणः उत्तमस
प्रधानमंत्री से मुलाकात करते जय राम ठाकुर।


शिमला, १७ सेप्टेम्बरमासः (हि.स.)। हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्रिणा प्रतिपक्षनेत्रा च जयरामठाकुरेण प्रधान-मन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे हार्दिक्य: शुभकामनाः प्रदत्ताः। तेन देवभूमेः हिमाचलप्रदेशस्य जनानां पक्षतः प्रधानमन्त्रिणः उत्तमस्वास्थ्यस्य, दीर्घायुषः, निरन्तरराष्ट्रसेवायाश्च मङ्गलकामना कृता।

जयरामठाकुरः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः सशक्तेन, दूरदर्शिना निर्णायकनेतृत्वेन च अद्य भारतं विकासस्य प्रगतेश्च नूतनानि शिखराणि स्पृशति। देशस्य गौरवं वर्धितम् अस्ति तथा भारतं विश्वपटलं सशक्तराष्ट्ररूपेण स्वकीयं नूतनं परिचयं स्थापयति।

तेन उक्तं यत् प्रधानमन्त्रिणः नेतृत्वे हिमाचलप्रदेशाय अपि विकासस्य अनेकानि महत्त्वपूर्णानि उपहाराणि प्राप्तानि सन्ति। मार्गाणां परिवहन-व्यवस्थायाश्च विस्तारस्य, स्वास्थ्यसुविधानां सुदृढीकरणस्य, पर्यटनस्य प्रोत्साहनस्य तथा बृहद्विकास-परियोजनानां माध्यमेन केन्द्रस्य भाजपासर्वकारेण हिमाचल-प्रदेशस्य विकासः निरन्तरं प्राथमिकतां प्राप्तवान् अस्ति।

प्रतिपक्षनेता ईश्वरं प्रार्थितवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः सदैव स्वास्थ्यं रक्षतु तथा देशः तस्य नेतृत्वस्य मार्गदर्शनस्य च निरन्तरं लाभं प्राप्नुयात्। तेन पुनः प्रधानमन्त्रिणे जन्मदिवसस्य हार्दिक्य: शुभकामनाः प्रदत्ताः।

Hindusthan Samachar / Divya Ranjan