नितिननवीनः अद्यारभ्य मध्यप्रदेशस्य द्विदिवसीयप्रवासे, इन्दौर-उज्जयिन्योः कार्यक्रमेषु सम्मिलिष्यति
भोपालम्, १७ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः गुरुवासरे मध्यप्रदेशस्य द्विदिवसीयप्रवासाय आगच्छति। सः अस्मिन् प्रवासे इन्दौर-उज्जयिन्योः आयोजितेषु विविधेषु कार्यक्रमेषु सम्मिलिष्यति। राष्ट्रियाध्यक्षपदं प्राप्त्य
नितिन नवीन (फाइल)


भोपालम्, १७ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः गुरुवासरे मध्यप्रदेशस्य द्विदिवसीयप्रवासाय आगच्छति। सः अस्मिन् प्रवासे इन्दौर-उज्जयिन्योः आयोजितेषु विविधेषु कार्यक्रमेषु सम्मिलिष्यति। राष्ट्रियाध्यक्षपदं प्राप्त्यनन्तरं नितिननवीनस्य मध्यप्रदेशस्य एषः प्रथमः प्रवासः भविष्यति।

भाजपायाः उज्जयिनीसम्भागप्रभारिणी लतावानखेड़े इत्यनया उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्म-दिवसस्य अवसरे तस्य पञ्चविंशति-वर्षीयसेवाकालस्य पूर्त्यवसरे च उज्जयिन्यां भाजपायाः राष्ट्रियाध्यक्षस्य नितिननवीनस्य आगमनं भवति। सः ‘सेवासङ्कल्पाभियानस्य’ अन्तर्गतं उज्जयिन्याः रामघाटे आयोजिते कार्यक्रमे भागं ग्रहीष्यति।

निर्धारितकार्यक्रमानुसारं नितिननवीनः अद्य अपराह्णे १:४५ वादने इन्दौरस्य देवी अहिल्याबाई होल्कर-विमानतलं प्राप्स्यति। ततः अपराह्णे २:५५ वादने गान्धीनगर-क्रीडाङ्गणे आयोजिते कार्यक्रमे सम्मिलित्वा स्वामित्वयोजनायाः अन्तर्गतं नूतनायाः राज्यव्यापिन्याः पञ्जीकरणप्रक्रियायाः शुभारम्भं करिष्यति। इन्दौरस्य स्थानीयकार्यक्रमेषु सम्मिलित्यानन्तरं सः सायं प्रायः ५:०५ वादने उज्जयिनीं प्राप्स्यति।

उज्जयिनीं प्राप्त्यानन्तरं सायं प्रायः ६:४५ वादने नितिननवीनः रामघाटं गमिष्यति। तत्र सः मातुः शिप्रायाः आरार्तिक्यां सम्मिलिष्यति तथा ‘सेवासङ्कल्पा-भियानस्य’ अन्तर्गतं ‘आशीर्वादस्य दीपम्’ प्रज्वालयिष्यति। ततः रात्रौ ८ वादने रामघट्टे आयोजितायां भजनसन्ध्यायामपि सम्मिलिष्यति। रात्रिनिवासं सः उज्जयिन्यामेव करिष्यति।

अपरस्मिन् दिने, १८ सेप्टेम्बरमासे, नितिननवीनः श्रीमहाकालेश्वरमन्दिरं प्राप्य भस्मारार्तिक्यां सम्मिलिष्यति तथा च बाबा महाकालस्य दर्शनपूजनं करिष्यति। ततः प्रातः प्रायः ९:३० वादने उज्जयिनीतः इन्दौरं प्रस्थास्यति। प्रायः १० वादने इन्दौर-विमानतलतः पञ्जाबं प्रति प्रस्थास्यति।

----------------------------

Hindusthan Samachar / Divya Ranjan