संघप्रमुखः मोहनभागवतः अद्य उज्जयिनीप्रवासे, श्वः युवधर्मसंसदि सम्मिलिष्यति
भोपालम्, १७ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनभागवतः अद्य मध्यप्रदेशप्रवासे उज्जयिनीम् आगच्छति। सः अत्र सङ्घस्य सङ्गठनात्मकासु सभासु सार्वजनिक-कार्यक्रमेषु च सम्मिलिष्यति। डॉ. भागवतः शुक्रवासरे गीताभवने आयोजितायां
संघ प्रमुख मोहन भागवत (फाइल)


भोपालम्, १७ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनभागवतः अद्य मध्यप्रदेशप्रवासे उज्जयिनीम् आगच्छति। सः अत्र सङ्घस्य सङ्गठनात्मकासु सभासु सार्वजनिक-कार्यक्रमेषु च सम्मिलिष्यति। डॉ. भागवतः शुक्रवासरे गीताभवने आयोजितायां त्रिदिवसीयायां ‘युवधर्मसंसद्-२०२६ अवन्तिका’ इत्यस्यां सभायां सम्मिलिष्यति। आयोजने चतुर्विंशति-राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च १६०० अधिकाः युवानः सम्मिलिष्यन्ति।

सरसंघचालकस्य आगमनं दृष्ट्वा सङ्घेन सह आरक्षक-प्रशासनेन व्यापकाः व्यवस्थाः कृताः सन्ति। आरक्षी-अधीक्षकः प्रदीपशर्मा अवदत् यत् अद्य सुरक्षा-व्यवस्थायै अतिरिक्तं आरक्षीबलं नियोजितम् अस्ति। सुरक्षाव्यवस्थानां पूर्वाभ्यासोऽपि कृतः, येन कार्यक्रमस्य समये कस्यापि प्रकारस्य अव्यवस्था न भवेत्।

सङ्घकार्यालयात् प्राप्तविवरणानुसारं सरसंघचालकः डॉ. भागवतः १७ सेप्टेम्बरमासस्य अपराह्णे उज्जयिनीं प्राप्स्यति। ततः सः कोयलाफाटकस्थिते मनोरमामहाकालोद्यान इत्यत्र सङ्घसम्बद्धानां कार्यकर्तॄणां प्रमुख-पदाधिकारिणां च विशेषसभायां सम्मिलिष्यति। सभायां सङ्गठनात्मक-क्रियाकलापानां विषये चर्चा भविष्यति तथा सरसंघचालकस्य मुख्योद्बोधनमपि भविष्यति। सायंकाले सरसंघचालकः डॉ. भागवतः महाकालपरिसरे अरविन्दनगरे उज्जयिनीमहानगरस्य स्वयंसेवकान् अपि सम्बोधयिष्यति।

सरसंघचालकः डॉ. भागवतः १८ सेप्टेम्बरमासे देवासमार्गस्थिते गीताभवने प्रातः ११ वादने सेवाज्ञसंस्थानम् इत्यनेन आयोजितायां ‘युवधर्मसंसदि’ सम्मिलिष्यति। सः तत्र यूनः सम्बोध-यिष्यति। मध्यप्रदेशे सेवाज्ञसंस्थानम् इत्यस्य एतत् प्रथमम् आयोजनम् अस्ति। इतः पूर्वम् अपि विभिन्नेषु नगरेषु त्रयः-चत्वारः कार्यक्रमाः आयोजिताः सन्ति। सरसंघचालकेन डॉ. भागवतेन सह संवादाय प्रायः द्विमासपूर्वं विद्यार्थिभिः पञ्जीकरणं कृतम् आसीत्। अस्मिन् देशस्य विभिन्नमहाविद्यालयेषु अध्ययन-रताः छात्राः छात्र्यश्च सम्मिलिष्यन्ति।

सेवाज्ञसंस्थानस्य राष्ट्रियसचिवः माधव-कुमारः अवदत् यत् उज्जयिन्यां देवासमार्गस्थिते गीताभवने अद्यतः त्रि-दिवसीयस्य ‘युवधर्मसंसद्-२०२६ अवन्तिका’ इत्यस्य आयोजनं भविष्यति। आयोजने युवानः, विद्यार्थिनः, शिक्षकाः विभिन्नेषु क्षेत्रेषु कार्यरताः प्रतिभागिनश्च सम्मिलिष्यन्ति।

आयोजनस्य उद्देश्यं यून: धर्मे, भारतीयसंस्कृतौ, ज्ञानपरम्परायां, जीवन-दृष्टौ, चरित्रनिर्माणे राष्ट्रस्य प्रति उत्तरदायित्वे च योजयितुम् अस्ति। औपचारिकः शुभारम्भः १८ सेप्टेम्बरमासे राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकेन डॉ. मोहनभागवतेन करिष्यते। अस्मिन् अवसरे सः प्रतिभागिनः यूनः सम्बोधयिष्यति। तथैव आयोजने यूनां समक्षं भारतीयसंस्कृतेः, धर्मस्य, ज्ञानपरम्परायाः समकालीनजीवनस्य च सम्बद्धेषु विभिन्नेषु विषयेषु व्यापकं विमर्शं संवादं च आयोजयिष्यते। देशस्य विभिन्नेभ्यः क्षेत्रेभ्यः सन्त-महात्मानः, विद्वांसः, शिक्षाविदः, चिन्तकाः, साहित्य-काराः, सामाजिककार्यकर्तारः प्रतिष्ठित-विशेषज्ञाश्च युवभिः सह संवादं करिष्यन्ति।

Hindusthan Samachar / Divya Ranjan