Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 17 सितंबरमासः (हि.स.)।
भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः प्रधानमन्त्री नरेन्द्रमोदीं जन्मदिवसावसरे शुभकामनाः अर्पयित्वा तस्य उत्तमस्वास्थ्यस्य, दीर्घायुष्यस्य, निरन्तरराष्ट्रसेवायै शक्तेः च कामनां कृतवान्। सः प्रधानमन्त्रीं चत्वारिंशदधिकशतकोटिदेशवासिनां नेतृत्वकर्तारं राष्ट्रसेवायाः प्रतीकं च इति वर्णितवान्।
गुरुवासरे स्वस्य सामाजिकसञ्चारमञ्चे ‘एक्स’ इत्यत्र चलचित्रं प्रसारयन् नितिननवीनः उक्तवान् यत् ‘राष्ट्रं प्रथमम्’ इति सङ्कल्पेन प्रधानमन्त्री नरेन्द्रमोदिनः सार्वजनिकजीवनयात्रा सेवा, सुशासनं, जनकल्याणं च आधारीकृत्य प्रेरणादायिनी गाथा अभवत्। सः उक्तवान् यत् एषा यात्रा केवलं कस्यचन एकस्य व्यक्तेः यात्रा न, अपि तु देशवासिनां सामूहिकस्वप्नानां दिशानिर्देशनस्य यात्रा अपि अस्ति।
भाजपाध्यक्षः उक्तवान् यत् प्रधानमन्त्रिणः मार्गदर्शने भारतं विकासस्य आत्मनिर्भरत्वस्य च नूतनान् आयामान् निर्माति तथा च विश्वपटलस्य उपरि स्वकीयां परिचितिं सामर्थ्यं च निरन्तरं सुदृढं करोति। सः ईश्वरं प्रति प्रार्थितवान् यत् प्रधानमन्त्रीमोदिने उत्तमस्वास्थ्यं दीर्घायुष्यं निरन्तरराष्ट्रसेवायै शक्तिं च प्रददातु।
एतस्मात् पूर्वं प्रधानमन्त्रिणः सार्वजनिकजीवनस्य पञ्चविंशतिवर्षाणां पूर्तेः अवसरं दृष्ट्वा नितिननवीनः देशवासिभ्यः सप्टेम्बरमासस्य सप्तदशदिनाङ्कस्य सायं षड्वादनतः सप्तवादनपर्यन्तं स्वेषु गृहेषु ‘आशीर्वादस्य दीपम्’ प्रज्वालयितुं आह्वानं कृतवान्। अस्य अभियानस्य अन्तर्गतं प्रधानमन्त्रिणः प्रति शुभकामनाः आशीर्वादं च व्यक्तुं देशवासिभ्यः आह्वानं कृतम् अस्ति।
नितिननवीनः अस्मिन् अवसरे उज्जयिन्याः रामघाटे ‘आशीर्वादस्य दीपम्’ प्रज्वाल्य कार्यक्रमानां प्रारम्भं करिष्यति। नितिननवीनः प्रातःकाले भाजपामुख्यालये आयोजितस्य रक्तदानशिबिरस्य उद्घाटनमपि करिष्यति।
--------------
Hindusthan Samachar / Dheeraj Maithani