प्रधानमन्त्रिणा मोदिना विश्वकर्माजयन्त्यां देशवासिभ्यः शुभकामनाः
नवदिल्ली, १७ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना गुरुवासरे भगवत: विश्वकर्मणः जयन्त्याः अवसरे देशवासिभ्यः शुभकामनाः प्रदत्ताः। निर्माणकार्येषु संलग्नानां देशव्यापिनां शिल्पकाराणां कौशलसम्पन्नानां च जनानां विशेषरूपेण अभिनन्दनं कुर्
प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, १७ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना गुरुवासरे भगवत: विश्वकर्मणः जयन्त्याः अवसरे देशवासिभ्यः शुभकामनाः प्रदत्ताः। निर्माणकार्येषु संलग्नानां देशव्यापिनां शिल्पकाराणां कौशलसम्पन्नानां च जनानां विशेषरूपेण अभिनन्दनं कुर्वन् सः अवदत् यत् तेषां कौशलं परिश्रमश्च विकसितस्य आत्मनिर्भरस्य भारतस्य सङ्कल्पस्य साकारीकरणे अत्यन्तं महत्त्वपूर्णौ स्तः।

प्रधानमन्त्रिणा नरेन्द्रमोदिना सामाजिक-माध्यमे ‘एक्स’-मध्ये सन्देशं प्रकाशित्य उक्तं यत् देवशिल्पिनः भगवान् विश्वकर्मणः सम्बद्धे अस्मिन् दिव्यावसरे निर्माणकार्येषु संलग्नानां देशव्यापिनां शिल्पकाराणां कौशलसम्पन्नानां च सहकर्मिणां विशेषरूपेण अभिनन्दनं करोति। सः अवदत् यत् शिल्पकाराणां कौशलं परिश्रमश्च देशस्य विकासे आत्मनिर्भरभारतस्य निर्माणे च महत्त्वपूर्णां भूमिकां निर्वहति।

सः अवदत् यत् राष्ट्रस्य नवनिर्माणस्य दिशि शिल्पकाराणां कौशलसम्पन्नानां च सहकर्मिणां प्रयासेभ्यः सर्वसम्भवं प्रोत्साहनं निरन्तरं प्राप्येत, तदर्थं सर्वकारः पूर्णतया प्रतिबद्धः अस्ति।

प्रधानमन्त्रिणा स्वसन्देशेन सह भगवत: विश्वकर्मणः महिमानं वर्णयत् सुभाषितमपि प्रकाशितम्—

“अनादिरप्रमेयश्च अरूपश्च जयाजयः।लोकरूपो जगन्नाथः विश्वकर्मन्नमो नमः॥”

अस्य सुभाषितस्य अर्थः अस्ति यत् भगवान् विश्वकर्मा आदिरहितः अनादिः, असीमः अप्रमेयश्च अस्ति। तस्य निश्चितं रूपं नास्ति तथा च सः जयापजयाभ्यां परः अस्ति। सः सम्पूर्णस्य संसारस्य स्वरूपेण जगतः स्वामिरूपेण च विद्यमानः अस्ति। तादृशाय भगवते विश्वकर्मणे पुनः पुनः नमः।

-----------------------------------

Hindusthan Samachar / Divya Ranjan