Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ सेप्टेम्बरमासः (हि.स.)। राष्ट्रपतिना द्रौपदीमुर्मु-महोदयया उप-राष्ट्रपतिना चन्द्रपी. राधाकृष्णन्-महोदयेन गुरुवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे हार्दिक्य: शुभकामनाः प्रदत्ताः। ताभ्यां प्रधानमन्त्रिणः स्वस्थस्य सुखमयस्य दीर्घायुषश्च जीवनस्य कामना कृता। उभाभ्यां प्रधानमन्त्रिणः नेतृत्वे देशस्य विकासयात्रायाः विकसितभारतस्य च लक्ष्यस्य दिशि भवतां प्रगतेः उल्लेखः कृतः।
राष्ट्रपतिना मुर्मु-महोदयया सामाजिक-माध्यमे ‘एक्स’-मध्ये प्रकाशितेन सन्देशेन प्रधानमन्त्रिणे शुभकामनाः प्रदाय उक्तं यत् तस्य पञ्चविंशतिवर्षीयायां सार्वजनिक-सेवायां गुजरातस्य मुख्यमन्त्रिपदात् आरभ्य देशस्य प्रधानमन्त्रिपदपर्यन्तं तस्य योगदानं समाविष्टम् अस्ति। सा अवदत् यत् प्रधानमन्त्रिणा सुशासनस्य नूतनाः मानदण्डाः स्थापिताः तथा च समावेशीविकासाय नूतना गतिः दिशा च प्रदत्ता। राष्ट्रपतिना प्रधानमन्त्रिणः नेतृत्वे देशस्य सांस्कृतिकपरम्परायाः आधुनिक-विकासस्य च मध्ये सामञ्जस्यस्य अपि उल्लेखः कृतः।
अपरतः उपराष्ट्रपतिना सी.पी. राधा-कृष्णन्-महोदयेन स्वसन्देशे प्रधानमन्त्रिणे जन्मदिवसस्य हार्दिकाः शुभकामनाः प्रदाय उक्तं यत् तस्य दृढेन दूरदर्शिना च नेतृत्वेन भारतं विश्वे उज्ज्वलकेन्द्ररूपेण उदेति तथा च प्रमुखेषु अर्थतन्त्रेषु तीव्रतमगत्या वर्धमानेषु देशेषु सम्मिलितम् अस्ति।
उपराष्ट्रपतिः अवदत् यत् पञ्चविंशत्य-धिककोटयः भारतीयाः अत्यन्तदारिद्र्यात् बहिः आगताः। अङ्कीयक्रान्त्या लक्षशः जनाः सशक्ताः कृताः तथा च अन्तरिक्षे, प्रौद्योगिक्यां, स्वास्थ्यसेवायां, आधारभूत-संरचनायां, विनिर्माणे च विविधेषु क्षेत्रेषु उल्लेखनीयः विकासः अभवत्।
सः अवदत् यत् पश्चाद्वर्ती जनपदानां ‘आकाङ्क्षीजनपद’रूपेण, सीमावर्तिग्रामाणां ‘जीवन्त-प्रथमग्राम’रूपेण, पूर्वोत्तरस्य च ‘अष्टलक्ष्मी’रूपेण उल्लेखः प्रधानमन्त्रिणः दूरदर्शिदृष्टिकोणं प्रदर्शयति। अनेन भौगोलिकदृष्ट्या उपेक्षितानां क्षेत्राणां सशक्तीकरणे देशस्य विकासयात्रायां च विभिन्नक्षेत्राणां जनानां सक्रियसहभागितां प्रवर्धयितुं सहायता प्राप्ता।
राधाकृष्णन्-महोदयेन उक्तं यत् गतवर्षे राज्येषु केन्द्रशासितप्रदेशेषु च स्वकीययात्रासु तेन एतानि परिवर्तनानि देशस्य दूरस्थेषु क्षेत्रेषु अपि प्राप्यमाणाः प्रत्यक्षतया दृष्टाः। सः अवदत् यत् देशव्यापिनः प्रगतिः, आकाङ्क्षा, नूतनः उत्साहश्च सामूहिकविकासयात्रायां जनानां विश्वासं प्रदर्शयन्ति।
उपराष्ट्रपतिना प्रधानमन्त्रिणः उत्तम-स्वास्थ्यस्य, सुखस्य, निरन्तरशक्तेश्च कामना कृता। सः अवदत् यत् प्रधानमन्त्रिणा २०४७ तमवर्षपर्यन्तं विकसितभारतस्य लक्ष्यस्य प्राप्तये मातृभूमेः नेतृत्वं निरन्तरं क्रियताम्।
---------------------------------------
Hindusthan Samachar / Divya Ranjan